SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षा.रा.भू. ॥१९६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin तत इति । भूतोपसृष्टेव धरण्यां वेपमाना भूतगृहीतेव भूमौ पतित्वा विवर्तमानेत्यर्थः । गतसत्त्वेव गतप्राणेव। “द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु ” इत्यमरः ॥ १ ॥ २ ॥ निवर्तयेति । अथ तान्नानुगच्छामि तान्नानुगच्छामि चेत् ॥ ३ ॥ बाष्पवेगेति । सज्जमानया विक्कुवया ॥ 8 ॥ त्यजेति । मोहं रामस्य किं भविष्यतीत्यज्ञानम् । सम्भ्रमं व्याकुलत्वम् । सन्तापं शोकजनित दे दसन्तापम्, रामो दुःखितो भविष्यतीति सन्तापमित्यर्थः । यस्माद्राचवः ततो भूतोपसृष्टेव वेपमाना पुनःपुनः । धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ १ ॥ नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २ ॥ निवर्तय रथं शीघ्रं दण्डकान्नय मामपि । अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ ३॥ बाष्पवेगोपहतया स वाचा सज्जमानया । इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ ४ ॥ त्यज शोकञ्च मोहञ्च सम्भ्रमं दुःखजं तथा । व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥ ५ ॥ लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ ६ ॥ विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव । विस्रम्भं लभतेऽमीता रामे संन्यस्तमानसा ॥ ७ ॥ नास्या दैन्यं कृतं किञ्चित् सुक्ष्ममपि लक्ष्यते । उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ ८ ॥ नगरोपवनं गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ ९ ॥ सन्तापं व्यवधूय वत्स्यति तस्माच्छोकादिकं त्यजेत्यन्वयः ॥ ५ ॥ लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति "राघ साध संसिद्धौ " इति धातुः ॥६॥ विजन इति । लभते भीतेत्यत्र अभीतेति पदच्छेदः । विस्रम्भं प्रगयम् " विस्रम्भःप्रणयेपि च " इत्यमरः ॥ ७ ॥ नास्या इति । कृतं वनवास कृतम् । किञ्चिदित्यस्य विवरणं सुसूक्ष्ममिति । प्रवासानामुचितेव प्रवासानां योग्येव । अभ्यस्तवनवासप्रयासेवेत्यर्थः ॥ ८ ॥ ९ ॥ तत इति । भूतोपसृष्टेव भूताविष्टेव । गतसत्वेव गतासुरिव धरण्यां स्थितेति शेषः ॥ १-३ ॥ बाध्नेति । वाचा उपलक्षिताम् । सः सुतः ॥ ४ ॥ ५ ॥ लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति ॥ ६ ॥ विजनइति । अभीतेति पदच्छेदः । विलम्भं प्रणयम् ॥ ७-९ ॥ For Private And Personal Use Only टी. प्र. की स० ६० ।। १९६ ॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy