________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अनुभूयमानस्वशोकस्यापरिमेयत्वात्तं सागरत्वेन रूपयति-रामशोकमहाभोग इत्यादिना। रामशोक एव महान् आभोगो वैपुल्यं यस्य स तथा । सीता विरहरूपं पारं गच्छतीति तथा । अश्रुवेगस्य प्रभवो मूलहेतुः । सागरो हि वर्षस्य निदानं महाग्रहः महाग्राहः । अनेन कुब्जावाक्यमेव रामप्रवासनमूल मिति राज्ञा ज्ञातमित्यवगम्यते । नृशंसायाः केकेय्याः वर एव वेला जलवृद्धिर्यस्य। रामप्रवाजनमेवायतमायामो देय यस्य स तथा ॥२९-३१॥सागरत्व
रामशोकमहाभोगः सीताविरहपारगः । श्वसितोर्मिमहावर्तों बाष्पफेनजलाविलः ॥ २९॥ बाहुविक्षेपमीनौघो विक्र न्दितमहास्वनः । प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ॥३०॥ ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः । वरवेलो नृशंसाया रामप्रवाजनायतः ॥३१॥ यस्मिन् बत निमनोऽहं कौसल्ये राघवं विना । दुस्तरो जीवता देवि मयायं शोकसागरः॥३२॥ अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् । इतीव राजा विलपन महा यशाः पपात तूर्ण शयने समूच्छितः ॥ ३३ ॥ इति विलपति पार्थिवे. प्रणष्टे करुणतरं द्विगुणं च रामहेतोः। वचन मनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता ॥ ३४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमदयोध्याकाण्डे एकोनषष्टितमः सर्गः॥ ५९॥ रूपणप्रयोजनमाह-यस्मिन्नित्यादिश्लोकेन॥३२॥ अशोभनमिति । न लभ इति यत् इदमशोभनमित्यन्वयः। कविनापि वक्तुमशक्यत्वादिवेत्युक्तम्॥३३॥ इतीति । इति उक्तप्रकारेण । रामहेतोः करुणतरं यथातथा द्विगुणं विलपति पार्थिवे प्रणष्टे मूञ्छिते सति । देवी पुनरेव भयमगमत् पूर्व रामस्य किं भविष्यतीति इदानीं भर्तुरपि किंभविष्यतीति भयमगमदित्यर्थः ॥ ३४ ॥ इति श्रीगोविन्द श्रीरामा०पीता. अयोध्या. एकोनषष्टितमः सर्गः॥१९॥ रामेत्यादि । सीताविरहपारगः सीताविरहरूपं पारं गच्छतीति तथा ॥ २९ ॥३०॥ वरखेला वर एव वेला यस्य सः ॥ ३१-३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनषष्टितमः सर्गः ॥ ५९॥ कतक०-वर एव थेला मदा यस्य । यतो रामप्रबाजना समुद्रात कालकूटमिा जाता ॥ ३१॥
For Private And Personal Use Only