________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा. भू ॥१९५॥
टी.अ.को.
अत्रापि नेत्यनुषज्यते । अयमर्थः रामप्रवासनरूपार्थः। सुहृद्भिर्मन्वयित्वा न कृतः अमात्यैश्च मन्त्रयित्वा न कृतः नेगमैश्च मन्त्रयित्वा न कृतः किन्तु स्त्रीहेतोः सम्मोहात सहसा कृतः॥ १९॥ भवितव्यतयति । अथवा इदं व्यसनं यदृच्छया दृष्टहेतुं विना भवितव्यतया पापेन प्राप्तमिति
भवितव्यतया नूनमिदं वा व्यसनं महत् । कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥२०॥ मूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम्। त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥२१॥ यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् । न शक्ष्यामि विना राम मुहूर्वमपि जीवितुम् ॥२२॥ अथवापि महाबाहुर्गतो दूरं भविष्यति। मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥२३॥ वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः। यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ २४ ॥ लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् । रामं यदि न पश्येयं गमिष्यामि यम क्षयम् ॥२५॥ अतोनु किं दुःखतरं योहमिक्ष्वाकुनन्दनम् । इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ २६ ॥ हा राम रामानुज हा हा वैदेहि तपस्विनि । न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥२७॥ स तेन राजा दुःखेन भृशमर्पितचेतनः। आवगाढः सुदुष्पारं शोकसागरमब्रवीत् ॥ २८ ॥ सम्बन्धः ॥२०॥ सूतति । ते तुभ्यं सुकृतमुपकारः। संत्वरयन्ति निर्जिगमिषन्तीत्यर्थः ॥ २१ ॥ यदीति । अद्यापि अस्यां विपद्यपि, ममैवाज्ञा यदि प्रवर्तते तदा राघवं निवर्तय । तुशब्दोऽवधारणे ॥ २२॥२३॥ वृत्तदंष्ट्रः इति । वृत्तदंष्ट्रः कुन्दकुड्मलाकारदंष्ट्रः। यदि पश्येयं जीवामीति सम्बन्धः॥२४॥ लोहिताक्षमिति । आमुक्तमणिकुण्डलं धृतरत्नकुण्डलम् ॥ २५ ॥ अतो न्विति । न पश्यामीति यत् अतः अदर्शनात् दुःखतरं किं नु किमपि दुःख तरं नास्तीत्यर्थः ॥२६॥२७॥ स तेनेति । दुःखेन तप्तायःपिण्डस्थानीयेन अर्पितचेतनः व्याप्तचित्तः। अवगाढः प्रविष्टः ॥२८॥ यदीति । निवर्तयतु, भवानिति शेषः ॥ २२ ॥ २३॥ वृत्तेति । वृत्तदंष्ट्रः कुन्दकुगलाकारदंष्ट्रः । लक्ष्मणपूर्वजः क असावयं मुमूर्षुः केत्यनुकर्षः। मुमूर्मिम रामस्य दर्शनं दुर्लभमित्यर्थः । यदि पश्येयं तदा जीवामि, जीवेयमित्यर्थः ।। २४ ॥ २५ ॥ अत इति । न पश्यामीति यत् अतो दुःखतरं किन्नु ॥ २६ ॥२७॥ स इति । अवगाढ़ः प्रविष्टः ॥२८॥
॥१९५॥
For Private And Personal Use Only