________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इत्यादि । विषये देशे । “देशविषयौ तूपवर्तनम्" इत्यमरः । अपिशब्देन उतादयः समुच्चीयन्ते । व्याध्यादिना एकदेशग्लानिं व्यावर्तयितुं स पुष्पेत्यादि । स पुष्पाङ्कुरकोरकाः पुष्पाणि अभिनवविकसितानि, अङ्कुराः शाखासु नवपलवोद्भेदाः, कोरकाः कलिकाः “ कलिका कोरकः पुमान् " इत्यमरः । तैः सहिता वृक्षा अपि परिम्लानाः, कठिनकोमलविभागमन्तरेणापि सर्वमेकदैव परिम्लानमभूदित्यर्थः ॥ ४ ॥ उपतप्तोदका इति । अकात्स्न्येनोप
उपतप्तोदका नद्यः पल्वलानि सरांसि च । परिशुष्कपलाशानि वनान्युपवनानि च ॥ ५ ॥
न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च । रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ ६ ॥ लीन पुष्करपत्राश्च नरेन्द्र कलुषोदकाः । सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तप्तत्वव्युदास। योदकपदम् तेनात पकार्योतापव्यावृत्तिः । पल्वलानि सरांसि च । पल्वलानीति दृष्टान्तार्थम् । एवं वनानीत्यपि । अनेनाल्पाधिक विभागमन्तरेण परितप्तत्वं द्योत्यते । उपतप्तोदका इतिपदं लिङ्गविपरिणामेन पल्वलादो योजनीयम् । वनानि सन्ततजलसेकमन्तरेण प्रवृद्धानि | कठिनाकाराणि । उपवनानि जलसंकेन प्रवृद्धान्यतिकोमलानि । परिशुष्कपलाशानि एकरूपेण शुष्कपत्राणि " पत्रं पलाशम् " इत्यमरः ॥ ५ ॥ नेति । न सर्पन्ति न गच्छन्ति किन्तु स्तब्धतया तिष्ठन्ति । सत्त्वानि जन्तवः । व्यालाः हिंस्रपशवः सर्वदा संचारस्वभावा गजा वा । न प्रचरन्ति आहारार्थ मपि न सञ्चरन्तीत्यर्थः । गमनवच्छन्दोपि नास्तीत्याह निष्कूजमिति । निष्कूजं निश्शब्दम् ॥ ६ ॥ लीन पुष्करपत्राः ग्लान्यतिशयेन जलान्तर्विलीन पद्म सितानि, अङ्कुराः शाखासु नवपल्लवोद्भेदाः, कोरकाः पुष्पमुकुलानि तैः सहिता वृक्षा अपि परिम्लानाः । अयं भावः- रामस्य जगदुपादानकारणत्वेन सर्वात्मकत्वा द्रामैकजीविनः कुसुमकिसलयकोरकसहिता वृक्षादयः छेदनानन्तरं प्ररोहणशीला अपि रामादर्शनव्यसनकर्शिताः छेदनं विनापि परिम्लानाः सद्य एव शुष्कमाया बभूवुः किम्पुनर्मनुष्यादय इति ॥ ४ ॥ उपतप्तोति । पल्वलानि सरांसि च तप्तोदकानि अनेनाल्पाधिकमागमन्तरेण परितप्तत्वं द्योत्यते । वनानि सन्ततजलसेक मन्तरेण प्रवृद्धानि कठिनाकाराणि उपवनानि जलसंक वृद्धान्पतिकोमलानि । परिशुष्कपलाशानि एकरूपेण परिशुष्कपत्राणि ॥ ५ ॥ न चेति । व्यालाः हिंस्रा: पशवः न प्रचरन्ति आहारार्थमपि न सञ्चरन्तीत्यर्थः । वनं निष्कम, पक्षिगोपि न कूजन्त ॥ लीनेनि लीनपुष्करपत्राः सङ्कुचितपद्मपत्राः पद्मिन्यः
For Private And Personal Use Only