________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१९४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१) पत्राः लीनाः सञ्चाररहिताः विहङ्गमाः जलकाकादयः॥ ७॥ जलजानीति । माल्यानि पुष्पाणि । “माल्यं पुष्पे पुष्पदानि” इतिवैजयन्ती । यथापुरं यथा पूर्वम् । अल्पगन्धीनीति मत्वर्थीय इनिः । स्वभावस्य दुस्त्यजत्वादल्पत्वम् । फलानि रसालपनसादीनि ||८|| अत्रेति । उद्यानानि आक्रीडाः “ पुमा जलजानि च पुष्पाणि माल्यानि स्थलजानि च । नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ ८ ॥ अत्रो द्यानानि शून्यानि प्रलीनविहगानि च । न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥ ९ ॥ प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति । नरा राममपश्यन्तो निश्वसन्ति मुहुर्मुहुः ॥ १०॥ देव राजरथं दृष्ट्वा विना राममिहागतम् । दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ ११ ॥ हम्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम् । हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥१२॥ आयतैर्विमलै नेत्रैरश्रुवेग परिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः॥ १३ ॥ नामित्राणां न मित्राणामुदासीनजनस्य च । अहमार्ततया किञ्चिद्विशेषमुपलक्षये ॥ १४ ॥
नाक्रीड उद्यानम्" इत्यमरः । शून्यानि निर्जनानि । प्रलीनाः नीडेषु मूर्च्छिताः विहगाः शुकपिकशारिकादयः येषु तानि तथोक्तानि । आरामान् कृत्रिम वनानि "आरामः स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमरः । न चाभिरामान् किन्तु निःश्रीकान् पश्यामीत्यर्थः || ९ ||१०|| देवराजरथमिति । देवराज रथमित्यत्र देवेति सम्बोधनम् || ११ || हम्यैरित्यादिश्लोकद्वयमेकान्वयम् । हाहाकारकृताः कृतहाहाकाराः । आयतैरित्यश्रुवेगातिशयोक्त्यर्थः । निरञ्जनत्वं द्योतयितुं विमलैरित्युक्तम् । अभिवीक्षन्तेव्यक्तमित्यत्र अव्यक्तमिति पदच्छेदः ॥ १२ ॥ १३ ॥ नामित्राणामिति । उदासीनेत्यत्रापि नभ नुषज्यते । अमित्राणां तवेतिशेषः । रामस्यामित्रप्रसङ्गाभावात् । यद्वा पौरजनस्यामित्राणां पौरजनस्य मित्राणाञ्च उदासीनजनस्य उदासीनजना सरस्यः ॥ ७ ॥ जलजानीति । माल्यानि पुष्पाणि यथापुरं यथापूर्वम् ॥ ८ ॥ अत्रेति । उद्यानानि आक्रीडान आरामान कृत्रिमवनानि ॥ ९ ॥ १० ॥ देवेति । देव राजेत्यत्र देवेति सम्बुद्धिः । अश्रुमुखः अभूदिति शेषः ॥ ११ ॥ हम्मेरिति । हर्म्यादिभिरवेक्ष्येति तेषु स्थित्वावेक्ष्येत्यर्थः । हाहाकारकृताः कृतहाहाकाराः, बभूवु रिति शेषः ॥ १२ ॥ आयतैरिति । अव्यक्तमिति छेदः ॥ १३ ॥ नेति । आर्ततया रामप्रवासजनितार्थत्वेन हेतुना । अमित्राणामन्योन्यशत्रूणां विशेषं नोपलक्षये । मित्राणामन्योन्यमित्राणां च विशेषं नोपलक्षये, अत एवोदासीनजनस्य च विशेषं नोपलक्षय इति सम्बन्धः । अनयोः शत्रुत्वमनयोर्मित्रत्वमयमुदासीन इति बोधो
For Private And Personal Use Only
टी.अ.का.
स० ५९
॥ १९४ ॥