________________
Shri Maharan Aradhana Kendra
www.khatirth.org
Acharya Shri Kalassagarsun Gyarmandie
हृदयेन त्वया न भवितव्यमिति योतयितुं महाराजेति सम्बोधनम् । हृदयस्थशोकातिरेकेण । निश्वसन्ती मनस्विनी गम्भीरमनस्का ।भूतोपहतचित्तेव। विष्ठिता स्तिमिता । दिस्मिता विस्मितेवोत्फुल्लनयना स्थिता॥३४॥ अदृष्टपूर्वव्यसनेति । अदृष्टपूर्वव्यसना अननुभूतपूर्वव्यसना । तत्र हेतुः राजपुत्रीति।
अदृष्टपूर्वव्यसमा राजपुत्री यशस्विनी । तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ ३५॥ उदीक्षमाणा भर्तारं मुखेन परिशुष्यता । मुमोच सहसा बाष्पं मां प्रान्तमुदीक्ष्य सा ॥३६ ॥ तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितो भवल्लक्ष्मणबाहुपालितः। तथैव सीतारुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ ३७॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ * [इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम् । ब्रह्मशेष पुनरिति राजा वचनमब्रवीत् ॥१॥ तस्य तद्वचनं श्रुत्वा सुमन्त्री बाष्पविक्लवः । कथयामास भूयोऽपि रामसन्देशविस्तरम् ॥२॥ जटाः कृत्वा महाराज चीरवल्कलधारिणौ। गङ्गामुत्तीर्य्य तौ वीरौ प्रयागाभिमुखौ गतौ॥३॥ अग्रतो लक्ष्मणो यातः पालयन रघुनन्दनम् । अनन्तरं च
सीताथ राघवो रघुनन्दनः । तांस्तथा गच्छतो दृष्ट्वा निवृत्तोम्यवशस्तदा ॥ ४॥] यशस्विनीति तदानीमप्यनुदितकैकेयीनिन्दात्वेन कीर्तिमती । तेन दुःखेन भर्तृदुःखदर्शनजदुःखेन । रुदती रोदनानुभाववती सती मां किञ्चिदपि नैवात्रवति, केनचित्सम्भाषणस्याप्यसयत्वात् ॥ ३५॥ उदीक्षमाणेति । ततो भर्तारमश्रुमुखमुद्रीक्षमाणा सती परिशुष्यता मुखेन उपलक्षिता मां प्रयान्त मुद्रीक्ष्य सहसा बाप्पं मुमोच । रथे गते कथं पयामेव क्रूरं कान्तारं चरिष्यति राम इति हृदयं धारयितुमशक्का अणि मुमोचेत्यर्थः ।। ३६ ॥३७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥ स्मितरहिता विष्ठिता स्थिता ॥३४-३६॥ तथैवेति । लक्ष्मणबाहुपालितः लक्ष्मणेन शुश्रूषमाणः ॥३७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका ख्यायो अयोध्याकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ ५८ ॥
.पते सार्धपत्वारः शोका व्याख्यात भेः परित्यक्तः अपि बहुपु कोशेपूपलभ्यमानतात्कुण्डली कृत्यानाः ।
For Private And Personal Use Only