________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
खा.रा.भ.
।। १९१ ।।
भरत इति । भरतः कुशलं वाच्यः, त्वयेति शेषः । वाच्यो मद्वचनेन च मयोक्तमित्यपि वाच्य इत्यर्थः । यद्वा भरतो मद्वचनेन कुशलं वाच्यः । सर्वा ॐ स्वेव मातृषु । यथान्यायं यथाक्रमम् । वृत्तिं वर्तस्व वृत्तिं कुरु, शुश्रूप स्वेत्यर्थः । इति वाच्य श्वेति द्वितीयवाच्यपदान्वयः॥ २१ ॥ वक्तव्य इति । राज्यस्थं भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च । सर्वास्वेव यथान्यायं वृत्तिं वर्त्तस्व मातृषु ॥ २१ ॥ वक्तव्यश्च महाबाहु रिक्ष्वाकुकुलनन्दनः । पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥२२॥ अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः । कुमारराज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ॥ २३ ॥ अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्द्धिनी ॥ २४ ॥ इत्येवं मां महाराज ब्रुवन्नेव महायशाः । रामो राजीवताम्राक्षो भृशमश्रूण्य वर्तयत् ॥ २९ ॥ लक्ष्मणस्तु सुसंक्रुद्धो निश्वसन् वाक्यमब्रवीत् । केनायमपराधेन राजपुत्रो विवासितः ॥ २६ ॥ राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् । कृतं कार्य्यमकार्य वा वयं येनाभिपीडिताः ॥ २७ ॥ प्रधानराज्यस्थम् । मा व्यवरोरुधः अवरुद्धं मा कार्षीः । अतिक्रान्त वयस्कत्वादिति तत्र हेतुः। कुमारराज्ये यौवराज्ये । जीव भोगान् भुङ्क्ष्वेत्यर्थः । इति च वक्तव्य इत्यन्वयः ॥ २२ ॥२३॥ अब्रवीदिति । अश्रूणि वर्तयन् करिष्यमाणमातृविषय पीडास्मरणादिति हृदयम् । स्वस्य मातृविषयशुश्रूषाया अलाभा द्वा अश्रुवर्तनम् । मम माता स्वमातेव त्वया द्रष्टव्या इति भरतमुद्दिश्य मां ब्रुवन्नेव भृशमश्रूण्यवर्त्तयत् । शोकजनितरक्तिमानमाह राजीवताम्राक्ष इति । अनन्तरमश्रुमोचनं ततो वक्तव्यस्यानुचितत्वात्, अमुमाशयमुत्तरत्र सीता हरणानन्तरमुद्वाटयिष्यति 'सुप्तप्रमत्त कुपितानां वचनैर्भाविज्ञानं द्रष्ट व्यम्' इतिन्यायेन ॥ २४ ॥ २५ ॥ लक्ष्मणस्त्विति । तुशब्देन रामवन्न सर्वथा हृदयं जुगोपेत्युक्तम् ॥ २६ ॥ राज्ञेति । येन विवासनेन वयमभिपीडिताः दत्तार्थज्येष्ठत्वात्तस्य वैमुख्यनिवृत्तये राजधर्ममनुस्मरेति च ॥ २० ॥ भरत इति । किञ्च भरतो मद्वचनेन कुशलं वाच्यः । सर्वास्वपि मातृषु यथान्यायम् वृत्तिं वर्त स्वेति च वाच्य इति योजना ॥ २१ ॥ वक्तव्य इत्यादिश्लोकद्वयमेकं वाक्यम् । राज्यस्थं प्रधानराज्यस्थम् ॥ २२ ॥ अतिक्रान्तेति । एवं दशरथं मा व्यवरोरुधः कुमारराज्ये यौवराज्ये । तेनैवाज्ञाप्रवर्त्तनात् जीव, इति वक्तव्य इति पूर्वेण सम्बन्धः ॥ २३ ॥ अब्रवीदिति । पुत्रगर्द्धिनी पुत्राभिकाङ्गिणी । हे भरत ! मम माता ते तव मातेव द्रष्टव्या ॥ २४॥ उपसंहरति- इतीति । इत्येवंप्रकारेण मां ब्रुवन्नेव । अश्रूण्यवर्तत इति पाठः व्यसृजत् ||२५|| लक्ष्मणस्त्विति वाक्यमब्रवीत् । तदेवाह - केना यमपराधेन इत्यारभ्य सार्थसप्तश्लोकः । राज्ञा त्विति । येन रामविवासनेन वयमभिपीडिताः तद्विवासमम् अकार्य तु अकार्यमेव ॥ २६ ॥ राज्ञा तु कैकेय्याः लघु
For Private And Personal Use Only
टी.अ.कां.
स० ५८
॥ १९२॥