________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बाष्पपरिरब्धया कण्ठगतबाष्परुद्धयेत्यर्थः । अतएव सज्जमानया स्खलन्त्या "पस्जगतो" इति धातुःधातोरनेकार्थत्वादत्र स्खलनार्थकः ॥१३॥१४॥ सूतेति । वन्द्यो वन्दनीयौ ॥ १५ ॥ अन्तःपुरम् आरोग्यमभिवादनं च वाच्यम् । बभो द्विकर्मकत्वादप्रधानकर्मण्यन्तःपुरे प्रथमा। कृताभिहितत्वात् ।।
अब्रवीन्मां महाराज धर्ममेवानुपालयन् । अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥ १४ ॥ सूत मद्रचना तस्य तातस्य विदितात्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ १५॥ सर्वमन्तःपुरं वाच्यं मूत मद्वचनात्त्वया। आरोग्यमविशेषेण यथाई चाभिवादनम् ॥१६॥ माता च मम कौसल्या कुशलं चाभिवादनम् । अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः॥ १७॥ धर्मनित्या यथाकालमग्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ॥ १८॥ अभिमानश्च मानश्च त्यत्का वर्तस्व मातृषु । अनु राजानमार्यां च कैकेयीमम्ब
कारय ॥ १९॥ कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२०॥ एवमुत्तरश्लोकेऽपि ॥ १६ ॥ अप्रमादं धर्मे भर्तरि च । इदं वक्ष्यमाणम् ॥ १७॥ अभिमानं गर्व "गर्वोऽभिमानोऽहङ्कारः" इत्यमरः । कुलाभिमान मित्यर्थः । मानः चित्तसमुन्नतिः । जेष्ठपत्नीत्वनिवन्धनां चित्तसमुन्नतिमित्यर्थः । अनु राजानमार्या च कारय, अनुकारयेत्यर्थः । “व्यवहिताश्च"| इति व्यवहितप्रयोगः । अन्विति तुल्यार्थे । " पश्चात्सादृश्ययोरनु" इत्यमरः । राजानं कैकेयीं च तुल्यमनुवर्तस्वेत्यर्थः । राजवत् राजीव । वृत्ति वर्तितव्या, उपचारः कर्तव्य इत्यर्थः । अर्थज्येष्टाः अर्थेनैव ज्येष्ठाः न तु वयसेत्यर्थः ॥ १८-२० ॥ गतबाप्पनिरुद्धया ॥ १३ ॥ अब्रवीदित्यादिश्लोकद्वयमेकं वाक्यम् । हे महाराज! राघवो धर्ममेवानुपालयन भूत्वा मामब्रवीत् । वक्ष्यमाणं वच इति शेषः ॥१४॥17 किमिति ? हे सूत ! शिरसा वन्दनीयस्य मे तातस्य मद्वचनात् मत्प्रतिनिधित्वेन अनलिं कृत्वा शिरसाभिप्रणम्य पादौ च वन्द्याविति योजना ॥ १५ ॥ किच Malसर्वमिति । मद्चनात सर्वमन्तःपुरमारोग्यमभिवादनं च वाच्यमिति ॥१६॥ मातेति । किच मम माता कौसल्यापि वक्तव्या, इति च एना कौसल्या ब्रूयाः ॥१७॥ किमिति ? धर्मनित्येत्यादि । अभिमानो गर्वः स्वगुणोत्कर्षबुद्धिः, मानः परस्याननुवृत्तिः । अनु राजानं राज्ञः पश्चात् कैकेयीमार्या श्लाघ्या कारय ॥१८॥१९ ॥ कुमार इति । भरते राजववृत्तिः वर्तितव्या सम्पादनीया । कथमुभयमित्यत आह अर्थज्येष्ठा इति । हि यस्मात अर्थज्येष्ठाः सन्तो राजानः भवन्ति अतः भरतस्य राज
For Private And Personal Use Only