SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शब्देन नगरस्थजना लक्ष्यन्ते । इति वचः शुश्रावेति पूर्वेण सम्बन्धः ॥ १४ ॥ वातायनगतानामिति । अन्वन्तरापणं शुश्राव । उभयपार्श्व स्थानामापणानां मध्येमध्ये शुश्रावेत्यर्थः । विभक्त्यर्थेऽव्ययीभावः ॥ १५ ॥ स राजमार्गमध्येनेति । पिहिताननः जनदर्शनाक्षमतया ॥ १६ ॥ सो वातायनगतानां च स्त्रीणामन्वन्तरापणम् । रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ १५ ॥ स राजमार्गमध्येन सुमन्त्रः पिहिताननः । यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ १६ ॥ सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च । कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ १७ ॥ हम्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकार कृता नार्यो रामादर्शनकर्शिताः ॥ १८ ॥ आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततराः स्त्रियः ॥ १९ ॥ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः । रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ २० ॥ सह रामेण निर्यातो विना राममिहागतः । सृतः किंनाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ २१ ॥ यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् । आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ २२ ॥ ऽवतीर्येति । राजनिर्गमाभावेन महाजनसङ्कलत्वम् ॥ १७ ॥ हम्यैरिति । इम्यैर्धनिनां वासैः । विमानैः सप्तभूमिगृहैः । “ विमानोऽस्त्री देवयाने सप्तभूमि गृहेऽपि च " इति वैजयन्ती । प्रासादैः महाराजाईगृहविशेषैः । उपलक्षिताः नार्यः समागतं रामेण विना समागतं सुमन्त्रमवेक्ष्य हाहाकारकृताः कृत हाहाकाराः, बभ्रुवुरिति शेषः ||१८|| आयतैरिति । अव्यक्तम् अस्पष्टमिति क्रियाविशेषणम् ॥ १९ ॥ २० ॥ सद रामेणेत्यादिश्लोकत्रयमेकं वाक्यम् । यत्रेति विभक्तिप्रतिरूपको निपातः प्रथमार्थे वर्त्तते । यथा “ क इत्था वेद यत्र सः" इत्यत्र यथा येन प्रकारेण । अस्मजीवितं दुर्जीवं दुःखेन नगरम् इति चिन्ताकुलं बभूवेति शेषः ॥ १४ ॥ वातायनेति । अनु अनन्तरम् वातायनगतानां स्त्रीणां परिदेवनं च अन्तरापणम् आपणमध्ये गच्छन् ७ शुश्रावेति सम्बन्धः ॥ १५ ॥ १६ ॥ स इति । कक्ष्याः द्वाराणि ॥ १७ ॥ हम्यैरिति । हम्यैः धनिकगृहैः । विमानं सप्तभीमसद्म, एतैरुपलक्षितामयोध्यां समा गतं सुमन्त्रमवेक्ष्य हाहाकारः कृतो याभिस्तास्तथा नाय बभूवुरिति शेषः ॥ १८ ॥ आयतैरिति । अव्यक्तं क्रियाविशेषणमेतत् । अन्योन्यमभिवीक्षन्ते इति कर्तव्यतामौट्यादिति शेषः ॥ १९ ॥ तत इति । प्रासादेभ्य इति सुमन्त्रस्य राजवेश्मप्रविष्टत्वेन ततोवतीर्णानामिति शेषः । मन्दं जल्पितमिति राजसान्निद्धयत्वा न्मन्दत्वम् ||२०|| अथ राममातॄणां दुःखप्रलापः- यथेति । यत्रेति विभक्तिप्रतिरूपको निपातः । कौसल्या पुत्रे निर्याते सति यथा आच्छिद्य प्रसह्य जीवति यत्र जीवतीति सत्य०यथा तस्याः एवं ममापि जीवनं न सुकरं मन्ये ॥ २२ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy