________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भ.
प्रविष्टदानित्यर्थः ॥ ८॥ ९॥ तेषामिति । गङ्गायां गङ्गातीरे। निवृत्तोऽस्मीति तेषां शशंसेति सम्बन्धः ॥ १०॥ त इति । ते रामादयः ॥ ११ ॥ टी.अ.का. शुश्रावेति । वृन्दवृन्दं च तिष्ठतां सङ्घशः तिष्टताम् । हता इति ये वयम् इह अस्मिन् रथे राघवं न पश्यामः इति अस्माद्धेतोः ते हताः स्मेति .
तेषां शशंस गङ्गायामहमाटच्छ्य राघवम् । अनुज्ञातो निवृत्तोऽस्मि धार्मिमकेण महात्मना ॥ १०॥ ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः। अहो धिगिति निश्वस्य हा रामेति च चुऋशुः ॥ ११ ॥ शुश्राव च वचस्तेषां वृन्दवृन्दं च तिष्ठताम् । हताः स्म खलु येनेह पश्याम इति राघवम् ॥ १२॥ दानयज्ञविवाहेषु समाजेषु महत्सु च। न द्रक्ष्यामः पुनर्जातु धार्मिक राममन्तरा ॥ १३॥ किं समर्थ जनस्यास्य किं प्रियं किं सुखावहम् । इति
रामेण नगरं पितृवत्परिपालितम् ॥ १४ ॥ सम्बन्धः ॥१२॥ दानयज्ञविवाहेष्विति । दानादिषु अन्तरा मध्ये नायकमाणिवत् वर्तमानं रामम् पुनः जातु कदाचिदपि न द्रक्ष्यामः किमिति काकुः। येन केनापि दाने क्रियमाणे रामः स्वयं तत्र गत्वा तिष्ठति । किमर्थम् ? देशेकाले पात्रे च दापयितुम् । यज्ञेपि गच्छति । किमर्थम् न्यायार्जिनधनैः कारयितुं तत्त कर्मसन्देहविच्छेदविस्मृतज्ञापनादिकं कर्तुं च । विवाहे च मध्ये गच्छति । किमर्थम् ? उभयवर्गसङ्घटनायासंमतानामभिमतदविणप्रदानाय अस्खलितं कर्मणामनुष्ठापनाय च । समाजेषु महत्सु अन्यत्रापि महासदस्सु,दीर्घसवेष्वपीत्यर्थः । यत्रत्राप्यदृष्टकायेंचिति वा। अत्र सर्वत्र हेतुर्धार्मिकमिति ॥१३॥ किमिति । अस्य जनस्य किं समर्थ कि क्षेमकरं वस्तु किंप्रियं किं सुखावहमिति, रामेण तत्तदभिमतवस्तुप्रदाबा रामेण पित्रेव नगरं परिपालितम् । नगर तृतीयेऽहनि सायाहसमये सारधिरयोध्या प्राप्य ता ददशेति सम्बन्धः । रामस्य भरद्वाजाश्रमावस्थानदिवसे भरद्वाजाश्रमाचारागमनानन्तरं सारथिस्तस्मिन्नेव दिवसे शृङ्गिवेरपुरात्रिर्गत्य तृतीयेऽहनि सापाढे अयोध्यां प्राप्य तो निरानन्दा ददशेति सम्बन्धः ॥५-११॥ शुश्रावेति । ये वयम् । इहास्मिन रथे राघवं न ॥१८॥ पश्यामः ते हताः स्मेति तेषामिति ईदृशं वचनं शुश्रावेति सम्बन्धः ॥ १२ ॥ दानेति । दानयज्ञादिषु अन्तरा मध्ये धार्मिकं रामं जातु पुनः न द्रक्ष्याम इति तेषां वचः शुश्रावेति पूर्वेण सम्बन्धः ॥ १३ ॥ किमिति । अस्य जनस्य इतःपरं किं समर्थ किमुचितं किं सुखावह वस्तु किमिति पित्रेव रामेण परिपालितं ।
For Private And Personal Use Only