________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पर्यन्तं गमनं च तत्रस्थैः शृङ्गिबेरपुरस्थेश्चारैरभिलक्षितं निवेदितम्, सुमन्त्रेण सम्यविदितमित्यर्थः । गङ्गोत्तरणदिवसनिशा वनस्पतिमूले, द्वितीया भर दाजाश्रमे, तृतीया यमुनातीरे, चतुर्थेऽहनि चित्रकूटगमनम्, पञ्चमे पुनरागम्य चारैनिवेदनम् ॥२॥ अनुज्ञात इति । अथ रामवृत्तान्तश्रवणानन्तरम् ।
अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान । अयोध्यामेव नगरी प्रययौ गाढदुर्मनाः॥३॥स वनानि सुगन्धीनि सरितश्च सरांसि च । पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥४॥ ततःसायाह्नसमये तृतीयेऽहनि सारथिः। अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥५॥स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः । सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः॥६॥ कच्चिन्न सगजा साश्वासजना सजनाधिपा । रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥७॥ इति चिन्तापरःमूतो वाजिभिः शीघ्रपातिभिः। नगरद्वारमासाद्य त्वरितःप्रविवेश ह ॥ ८॥ सुमन्त्रमभि
यान्तं तं शतशोऽथ सहस्रशः।क्कराम इति पृच्छन्तः सूतमभ्यद्रवन्नराः॥९॥ अनुज्ञातः, गुहेनेतिशेषः । गाढदुर्मनाः अत्यन्तदुर्मनाः ॥३॥ स वनानीति । ग्रामाणि ग्रामान् ॥ ४॥ तत इति । ततः ग्रामनगरातिक्रमणानन्तरम् । तृतीयेऽहनि शृङ्गिबेरपुरान्निर्गमापेक्षया तृतीयदिवसे । यदा अहनि तृतीये सायाह्नसमये । अह्नः तृतीयकालभूते सायाह्नकाले । अयोध्यां समनुप्राप्य / निरानन्दा तां ददर्श ॥५-७॥ इतीति । त्वरितः प्रविवेश । नगरं जनसञ्चारशून्यं निःशब्दं वर्तते । राजा कामवस्था प्राप्त इति ज्ञातुं त्वरितः तत्रस्थैः शृङ्गिबेरपुरस्थैः । गुहपेक्षितैश्चारैतुभिरुपलक्षितम्, सुमन्त्रेण सम्यगवेदितमित्यर्थः । तत्रस्थैरुपलक्षितमिति शृङ्गिबेरपुरे स्थित्वा चारान् प्रेषयित्वा तत्र स्थितेभ्यस्तेभ्यः प्रथमेऽहनि गङ्गामुत्तीर्य वृक्षमूले न्यबसन्, द्वितीयेहनि भरद्वाजाश्रमेऽवसन, तृतीयेऽहनि यमुनातीरवने उषुः, चतुर्थेऽहनि चित्रकूटं गमिष्यन्तीति गुह प्रेरितचारैः कधितं सुमन्त्रण विदितमित्यर्थः ॥२॥ अनुज्ञात इति । अब रामवृत्तान्तपरिज्ञानानन्तरम् । अनुज्ञातःगुहेनेति शेषः॥३॥४॥ तत इति । तृतीयेऽहनि तृतीये सायावसमये अहस्तुतीयभागभूते सायाह्नकाले सारथिः सुमन्त्रः अयोध्यां समनुप्राप्य निरानन्दा ददर्शति सम्बन्धः । यद्वा ततः शृङ्गिवेरपुरात् निर्गमनदिवसस्य
ति०-गडोत्तरणतृतीयदिवसे भरद्वाजाश्रमात्प्रतिनिवृत्तदूतमुखाचावत्पर्यन्त तदृत्तं ज्ञात्वा तहिन एव शृषिवेरपुरात्सुमन्त्रस्य प्रतिनिवृत्तिरिति बोध्यम् । अत एव " रामस्य निर्गमदिनादिने षष्ठेऽर्धरात्रके । हाहा लक्ष्मण हा सीते हा रामेति मृतो नृपः॥” इति पाअवचनं सङ्गच्छते । दिनद्वयन भृशिवेरपुरे रामागमनम् । तद्वितीयदिने महोत्तरणम् । तदादिदिनत्रयं सुमन्त्रस्य तत्र स्थितिः । तत्र तृतीपदिवसे मध्याहे प्रयागत भागतचारेन्यो रामवृत्तान्तं लब्ध्वा ततः प्रत्याय मयेऽस्थानम् । ततः षष्ठे अपराहे अयोध्याप्रवेशः सुमन्त्रस्य । तदर्धरात्रे राज्ञो मरणम् ॥ ५ ॥
|
For Private And Personal Use Only