SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वसीयते परिसमाप्यते ते सत्रावसानाः, सत्रावसाना एवं सत्रावसानिकाः । विनयादेराकृतिगणत्वात् स्वार्थे ठक् । छान्दसो वृद्धयभावः। अकरोत् यावता वास्तुशान्तिकर्म समाप्यते तावन्मन्त्रान् जजापेत्यर्थः । मन्त्रजपपूर्वकं कर्माण्यकरोदित्यर्थः ॥२९॥ इष्ट्वा देवगणानिति । देवगणान् वास्तु इष्ट्वा देवगणान् सर्वान विवेशावसथं शुचिः। बभूव च मनोहादो रामस्यामिततेजसः॥३०॥ वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च । वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ ३१ ॥ जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथा विधि । पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ ३२ ॥वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानु रूपाणि स्थापयामास राघवः ॥ ३३ ॥ वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मीसैर्यथाविधि । अद्भिर्जपैश्च वेदोक्तैर्दर्भेश्च ससमित्कुशैः॥३४॥ तो तपयित्वा भूतानि राघवी सह सीतया । तदा विविशतुःशाला सुशुभां शुभलक्षणौ ॥३५॥ देवताः। हादः तुष्टिः॥३०॥ वैश्वदेववलिमिति। वैश्वदेवबलिं वैश्वदेवबलिहरणे।रौद्ररुद्रदेवताकम् । वैष्णवं विष्णुदेवताकंच यागम्। वास्तुसंशमनीयानि गृहा परिष्टशामकानि ।मङ्गलानि मङ्गलकराणि पुण्याहवाचनशान्विजपादीनि । सात्वेति पुनःस्रानकरणं “ततः सर्वोषधीस्नानं यजमानस्य कारयेत्" इति स्मरणादित्याहुः। वस्तुतस्तु रौद्रयागकरणात् पुनःस्नानम् । रोद्रकर्मकरणे अपउपस्पृश्येति विधानादिति ज्ञेयम् । पापसंशमनं पापशब्देन पापप्रधानानि दिवाचरनक्तंचराणि क्रूरभूतान्युच्यन्ते।तेषां संशमनम् । यद्वा पापसंशमनं “पञ्च सूना गृहस्थस्य" इत्याधुक्तरीत्या सूनारूपपापशमनम् । वैश्वदेवबलि समित्यत्र भूतबलिमात्रोक्तिः। अत्र तद्यतिरिक्तः पित्रादिविषयः। यद्वा पूर्व वैश्वदेवरूपबलिमित्यर्थः । अत्र सर्वभूतबलिः । यद्वा पूर्वोक्तस्य सर्वस्योपसंहारः V॥३१॥३२॥ वेदीति । वेदिस्थलविधानानि बलिहरणादिवेदिस्थलसंस्थानानि । “वेदिः परिष्कृताभूमिः" इत्यमरः ।चैत्यानि गन्धर्वाद्यावासस्थानानि । आयतनानि विष्ण्वाद्यावासस्थलानि । (पाठभेदः। चैत्यानि देवतास्थानानि । आयतनानि अग्न्यगाराणि । अनुरूपाणि आश्रमस्यानुरूपाणि इष्ट्येति । देवगणान पूर्वोक्तगृहाधिष्ठितपञ्चचत्वारिंशद्देवगणान्॥३०॥ एवं गृहाधिष्ठितदेवतापूजाद्युक्त्वा पुनःस्नानपूर्वकं वैश्वदेवादिप्रकारमाह-वैश्वदेवेत्यादिश्लोकद्वयेन। वास्तुसंशमनीयानि वास्तुदोषसंशमनार्थानि गर्भन्यासादीनि । मङ्गलानि पुण्याहवाचनादीनि च चकारेति सम्बन्धः ॥ ३१ ॥ ३२ ॥ वेदिस्थलेति । वेदिस्थलानां बलिहरणवेदिस्थलानाम् अष्टदिग्वर्तिनामपि विधानानि । चैत्यं गणपत्यायतनम्, आयतनं विष्ण्वादेः । अनुरूपाणीति सूक्ष्ममार्गेण स्थापयामास, तत्तद्देवतानां तर For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy