________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मृषिनिर्गमनकथनात्ततःप्रभृति तमसातीर इति ज्ञेयम् । अतो न बालकाण्डकथाविरोधः ॥१३-१७॥ तत इत्यादिश्लोकद्वयमेकं वाक्यम् । यथान्यायं । यथाकमम् । आत्मानमृपये संनिवेद्य अमुकस्य पुत्रोऽहम् अयं महाता इयं मद्भार्या एतादृशकार्यार्थमागता वयमित्येवमुक्त्वा। वराणि जम्बूप्रभृासा
तान् महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाचस्वागतं तु निवेद्य च ॥१७॥ ततोऽब्रवीन्महा बाहुर्लक्ष्मणं लक्ष्मणाग्रजः । संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ॥१८॥ लक्ष्मणानय दारूणि दृढानि च वराणि च। कुरुष्वावसथं सौम्यवासे मेऽभिरतं मनः ॥ १९॥ तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान द्वमान । आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ २० ॥ तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् । शुश्रूषमाणमेकाग्रमिदं
वचनमब्रवीत् ॥२१॥ ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् । कर्त्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः॥२२॥ तीनि गृहनिर्माणार्हाणि । तिन्त्रिणीमधूकादेस्त्याज्यत्वात् । आनय आवसथं कुरुष्वेति लक्ष्मणमत्रवदिति सम्बन्धः॥१८-२०॥ तामिति । निष्ठितां निश्चलां वातादिना चालयितुमशक्यां भित्तिसहितां परिनिष्पन्नाम् । बद्धका कुडयार्थे कल्पितास्तरणां बद्धबाह्यावरणां वा । “कटे वर्षावरणयोः" इति धातुः । सुदर्शनां शोभनदर्शनाम् । शुश्रूषमाणं परिचर्यो कुर्वन्तम् । एकाग्रम् इतःपरं किंवा आज्ञापयिष्यतीति सावधानम् ॥ २१॥ ऐणेयमिति । ऐणेयम् एणसम्बन्धि । एणाकृञ् आर्षः। शालां शालाधिष्ठात्रीस्तत्तदिग्वासिनीदेवताः । वास्तु शय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेन' इत्यादिनगरखण्डप्रतिपाद्याः। तादृशयागाथै पूर्व वास्तुशमनं वास्तुशान्तिः गृहप्रवेशाहे कर्म कर्तव्यम्, गृहदेशे वर्तमानभूतपिशाचादीनां शमनं कर्तव्य मित्यर्थः। कर्तव्यं चिरजीविभिरित्यनेन अकरणे भायुम्लयो दर्शितः। तदुक्तं ब्रह्माण्डपुराणे "न च व्याधिभयं तस्य न च बन्धुजनक्षयः । जीवेद् राज्ये रामे यदा काव्यं करिष्यति तदा तस्य तममा तीराश्रमे वासः, ततः प्राक् चित्रकूटाश्रमे वासः ॥ १५ ॥ १६ ॥ तानिति । स्वागतं रामं प्रति स्वागतप्रश्न निवेद्य विज्ञाप्य ॥ १७ ॥ तत इति । आत्मानं सन्निवेद्येति । अमुकस्य पुत्रः अमुकहेतोरिहागतवानस्मीत्युक्त्वेत्यर्थः ॥ १८-२०॥ तामिति । निष्ठितामन्तर्बहिः प्राकारभित्या सुप्रतिष्ठितां बद्धकटाम् । छान्दसोवर्णलोपः । बद्धकवादाम् ॥ २१ ॥ ऐणेयमिति । ऐणेयम् एणविकारम् । शाला शालाधिष्ठातृदेवता यक्ष्यामहे । किमर्थमत आह कर्तव्यं वास्तुशमनामात । वास्तुशब्दो गृहापरपर्यायः । “धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षयः" इति निघण्टुः ।वास्तु
च। राधवं प्रीतिसंयुक्तमिदं वचनमब्रवीत् । ज्ञातं मया रघुश्रेष्ठ त्वदागमनकारणम् । अत्र वासमृषीणां च सफाशे रोषये प्रभो । इति तेन समानतः प्रीयमाणो महारथः । तथेति प्रतिजमाह माथि णोक्तं कृताञ्जलिः । इत्यधिकः पाठः ॥
For Private And Personal Use Only