SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चा.रा.भ.शद्रोणप्रमाणानि द्रोणम् आढकद्वयम्, तत्प्रमाणानि तत्प्रमाणमधुपूरितानि।मधूनि कुर्वन्तीति मधुकार्यः। कर्मण्यण डीप । ताभिः मधुमक्षिकाभिरितिटी .अ.का. ॥१५॥ यावत् । सम्भृतानि निर्मितानि । नगेनगे वृक्षेवृक्षे । लम्बमानानि मधूनि मधुपटलानि पश्य ॥८॥ एष इति । नत्यूहः दात्यूहः । वनोद्देशे वनप्रदेशे। स. ५६ पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधुकारीभिः सम्भृतानि नगेनगे॥८॥ एष क्रोशति नत्यूह स्तं शिखी प्रतिकूजति । रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ ९॥ मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् । चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ १० ॥ समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥ ११ ॥ ततस्तौ पादचारेण गच्छन्तौ सह सीतया। रम्यमासेदतुः शैलं चित्रकूट मनोरमम् ॥१२॥ तं तु पर्वतमासाद्य नानापक्षिगणायुतम् । बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ॥१३॥ मनोज्ञोऽयं गिरिः सौम्य नानागुमलतायुतः । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ १४॥ मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये। अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ १५॥ इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः। अभि गम्यांश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ १६ ॥ पुष्पसंस्तरसङ्कटे पुष्पमयास्तरणेन निबिडे ॥९॥ मातङ्गयूथानुसृतमिति । मातङ्गयूथानुसृतं गजकुलैाप्तम् । प्रवृद्धशिखरम् उन्नतशिखरम् ॥१०-१२ ॥ तं वित्यारभ्य अभिवादयन्नित्यन्तमेकं वाक्यम् । तं त्विति । सरसोदकं स्वादूदकम् । स्वाजीवः शोभनः आजीवो जीविका यस्मिन् स तथोक्तः। शिलोच्चये पर्वते । इति इतिनिश्चित्यः। आश्रमं वाल्मीकीयम् । अभिवादयन् अभ्यवादयन् । तदानीं चित्रकूटे वाल्मीकेवासः, भरतागमनानन्तर पश्येति । आढक(चतुष्टय)द्वयं द्रोणं तावत्प्रमाणमधुपूर्णानि मधुपटलानि । मधुकारीभिः मधुमक्षिकाभिः ॥८॥ एष इति । नत्पूहः दात्पूहः । वनोदेशे वनप्रदेशे। m. पुष्पसंस्तरसङ्कटे पुष्पैः संस्तर आच्छादनं तेन सङ्कटे निबिड़े ॥९-१२ ॥ सरसोदकं स्वादूदकसहितम् ॥ १३ ॥ मनोज्ञ इति । स्वाजीवः सुखेन जीवितुं ये शक्यः ॥ १४ ॥ मुनय इति । अयं वासो भवेत् वासयोग्यो भवेत् । तावत्तस्माद्रमेमहि इति वाल्मीकिमभिवादयन् अभ्यवादयन् । वाल्मीकिः प्राप्त For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy