________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनिनोन्नतम् । नदीवप्रं नदीतीरम् । संमतं निवासं सीताभिमतं वासस्थानम् ||३४|| इति श्रीगो० अयोध्याकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ अथोति । अनन्तरं स्वप्रबोधानन्तरम् । अवसुप्तम् ईषत्सुप्तमित्यर्थः ॥ १ ॥ सौमित्र इति । वन्यानां शुकपिकशारिकादीनाम् । वल्गु सुन्दरम् । कालः अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् । प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः ॥ १ ॥ सौमित्रे शृणु वन्यानां वल्गुव्याहरतां स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप ॥ २ ॥ स सुप्तः समये भ्रात्रा लक्ष्मणः प्रति बोधितः। जहौ निद्रां च तन्द्रीं च प्रसक्तं चं पथि श्रमम् ॥ ३ ॥ तत उत्थाय ते सर्वे स्ष्टष्ट्वा नद्याः शिवं जलम् । पन्थानमृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥ ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीतां कमलपत्राक्षी मिदं वचनमब्रवीत् ॥ ५ ॥ आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् । स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ ६ ॥ पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान् । फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ॥ ७ ॥
प्राप्त इति शेषः ॥ २ ॥ स इति । समये प्रबोधनसमये । तन्द्रीं जाड्यम् । जहाँ तदाप्रभृतीति शेषः । पथि श्रमं तत्कृतोपचारमित्यर्थः ॥ ३ ॥ तत उत्थायेति । नद्याः कालिन्द्याः । स्पृष्ट्वेत्युपलक्षणं प्रातः कालिकस्नानादिकृत्यानाम्, तं पन्थानं पलाशवनरूपम् ॥ ४ ॥ ५ ॥ आदीप्तानिति । आदीप्ता निव आ समन्ताज्ज्वलत इव । नगान् वृक्षान्। स्वैः पुष्पैः मालिनः मालावत इव स्थितान् । शिशिरात्यये वसन्तसमये ॥ ६ ॥ पश्येति । भल्लातकान् वीरवृक्षान्। फुलान् फुलपुष्पान् । अनुपसेवितान् दुर्गमत्वादितिभावः । जीवितुं शक्ष्यामि एवमादिजीवनसाधनस्य विद्यमानत्वादिति भावः ॥ ७ ॥ नदीव नदीतीरम् ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ अथेति । अनन्तरं रामप्रबोधानन्तरमपि । अवसुप्तम् ईषत्सुतम् ॥ १ ॥ सौमित्र इति । बन्यानां शुकपिकादीनां स्वनं शृणु । प्रस्थानस्य प्रयाणस्य कालो जातः । अतस्सम्मतिष्ठामहे संप्रतिगच्छाम इति योजना ॥ २ ॥ स इति । समये प्रबोधनसमये ॥ ३ ॥ तत इति । जलं स्पृष्ट्वा स्नानाद्यनुष्ठानं कृत्वा ॥ ४ ॥ ५ ॥ आदीप्तानिति । आदीप्तानिव आ समन्ताज्वलत इव । मालिनः श्रेणीभूतान् । शिशिरात्यये वसन्ते । यद्वा स्वैः पुष्पैः । मालिनः मालावत इव स्थितान् ॥ ६ ॥ पश्येति । जीवितुं "शक्ष्यामि जीवनसाधनसमृद्धिलाभादिति भावः ॥ ७ ॥
For Private And Personal Use Only