________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
युक्तः । सम्यक् गुरुकुलवासाद्यङ्गमाहिततया साङ्गवेदवित् । “शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । कल्पश्चेति व्याहृतानि वेदाङ्गानि मनी पिभिः।" इत्युक्ताङ्गसहितवेदार्थज्ञः। यथावत् यथासम्प्रदायम् ॥ ३५॥ गान्धर्वे च सङ्गीतशास्त्रेऽपि । सामगानोपयुक्तत्वादितिभावः। कल्याणाभिजनः परिशुद्धोभयवंशः। साधुः स्वयं परिशुद्धः। अदीनात्मा क्षोभहेतुष्वप्यक्षोभ्यान्तःकरणः॥३६॥ द्विजैरिति । धमाधनपुणः धर्मार्थप्रतिपादनकुशलैः स्वार्थे । अणप्रत्ययः। श्रेष्ठैः अभिजनविद्यावृत्तयुक्तः। अभिविनीतः सर्वतः सुशिक्षितः ॥३७॥ यदेति । ग्रामार्थ इत्यत्र ग्रामेत्यविभक्तिकनिर्देशः । ग्रामस्य नगरस्य
गान्धर्वे च भुवि श्रेष्टो बभूव भरताग्रजः। कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ ३६ ॥ द्विजैरभिविनीतश्च श्रेष्टैर्धर्मार्थनैपुणैः ॥३७॥ यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा । गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते ॥ ३८ ॥ सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा । पौरान स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ ३९ ॥ पुत्रेप्वनिषु दारेषु प्रेष्यशिष्यगणेषु च । निखिलेनानुपूच्चि पिता पुत्रानिवौरसान् ॥ ४० ॥ शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः । इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥४१॥ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।
उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४२ ॥ वार्थे प्रयोजने निमित्ते नाविजित्य निवर्तते इत्यभिधानात् रामस्य सुबाहुमारीचविषये जेतृत्ववदन्यत्रापि शत्रुविषये जेतृत्वमभूदित्यवगम्यते ॥ ३८॥
संग्रामादिति । स्फुटम्॥३९||कुशलप्रश्नप्रकारमाह-पुत्रेष्विति । प्रेष्यः भृत्यः। निखिलेन कात्स्न्येन । आनुपूर्यात् प्रधानक्रमण पृच्छतीत्यनुषज्यते॥४०॥ Vशुथूपन्त इति । दंशिताः सन्नद्धाः “सन्नद्धो वर्मितः सजा दंशितः" इत्यमरः ॥४१॥ सत्पुरुषसम्भावितगुणानभिधाय रामस्य साधारणगुणानाह-व्यस।
नेष्विति । मनुष्याणां दिव्यान्तःपुरस्थितमातृप्रभृतीनां न भवति किन्तु मनुष्याणाम् आढयदरिद्रद्विजादितारतम्यानादरेण मनुष्यजात्याकान्तानाम् ।। विवेकः॥ ३४ ॥३५॥ गान्धर्व इति । गान्धर्व सङ्गीतशावपि । कल्याणेति । अदीनात्मा क्षोभहेतुसहस्रवपि अक्षुभितान्तःकरणः ॥ ३६॥ द्विजैरिति । अभि.. विनीतः शिक्षितः ॥ ३७ ॥ यदेति । ग्रामार्थमित्यत्र ग्रामेत्यविभक्तिकनिर्देशः । ग्रामस्य नगरस्यार्थे प्रयोजनविषये ॥ ३८-४० ॥ शुश्रूषन्त इति । दंशिताः अवहिताः । पुरुषव्याघ्रः पुरुषश्रेष्ठः ॥४१॥ व्यसनेविति । मनुष्याणां प्राणिमात्रस्य व्यसनेषु कृच्छ्रेषु, भृशं भवति दुःखितः साक्षाद्दुःखभाग्भ्योपि
For Private And Personal Use Only