________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू. ॥१८॥
R0
सरासीनो मुनिभिश्चेत्यनेन मुनिवैभवात्तिर्यश्चोऽपि मुनिनिर्विशेष सातविश्वासाः सेवन्त इति गम्यते । स्वागतेनाह स्वागतमाहेत्यर्थः। यदा मृगपक्षिभिः.टी.अ.का. सहेतिशेषः । स्वागतेनाभ्यर्येति सम्बन्धः ॥ १९॥ मुनिराहेत्येतद्विवृणोति-प्रतिगृह्यति ॥ २०॥ चिरस्य चिरम् ॥२१-२३ ॥ भगवन्नित्यादि
प्रतिगृह्य च तामामुपविष्टं स राघवम् । भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥२०॥ चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् । श्रुतं तव मया चेदं विवासनमकारणम् ॥ २१ ॥ अवकाशो विविक्तोऽयं महानद्योः समागमे । पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥२२॥ एवमुक्तस्तु वचनं भरद्वाजेन राघवः। प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥२३॥ भगवनित आसन्नः पौरजानपदो जनः । सुदर्शमिह मां प्रेक्ष्य मन्ये ऽहमिममाश्रमम् ॥२४॥ आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः । अनेन कारणेनाहमिह वासं न रोचये
॥ २५॥ एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् । रमेत यत्र वैदेही सुखार्हा जनकात्मजा ॥ २६ ॥ Kाइतः एतदाश्रमापेक्षया । इह आश्रमे । सुदर्श सुखेन द्रष्टुं शक्यम् । प्रेक्ष्य ज्ञात्वा । वैदेही मां च प्रेक्षको जनः इममाश्रममागमिष्यतीत्यहं मन्ये । अनेन|
कारणेन इह वासं न रोचय इत्यन्वयः। मां प्रेक्षक इत्यत्र “अकेनोभविष्यदाधमर्ययोः" इति पष्ठीप्रतिषेधः । एकान्ते पौरजनाविदिते । पश्य मत्वा मुनिनिर्विशेषास्सन्तः सेवन्त इति ॥ १९ ॥ २० ॥ चिरस्येति । चिरस्य चिरकालस्य । इहाश्रमे त्वा पक्ष्यामि । अयं भावः-चक्षुराद्यगोचरं त्वामेव मनसि सततमनुसन्दधानोऽहं चिरकालस्य इह मम पुरतः चक्षुषा पश्यामीत्याश्चर्यम, अतो मम भाग्यं किं वर्ण्यत इति । लौकिकदृष्टिमनुसृत्याह श्रुतमिति ॥२१-२३॥ भगवनिति । इत आसन्नः एतदाश्रमस्यासन्नवर्ती। पौरजानपदो जनः ।मां सुदर्श सुखेन द्रष्टुं शक्यं प्रेक्ष्य ज्ञात्वा । वैदेही मां च प्रेक्षको जनः इममाश्चममागमिष्यती त्यहं मन्ये, अनेन कारणेनेह वासं न रोचय इति सम्बन्धः ॥ २४ ॥ २५ ॥ एकान्त इति । यत्र यस्मिन्नाश्रमस्थाने तं पश्येति सम्बन्धः । भगवन्नित्यादिश्लोकत्रयस्य वास्तवार्थस्तु-भगवन् सर्वज्ञ !रावणवधार्थ गूढतयावतीर्ण मा यद्येवं प्रकटीकरोषि तदा सर्वोपि जनः मां सुदर्श सुष्ठ द्रष्टुं योग्य सुदर्श विष्णुं च " दृश्यते त्वम्यया" इति श्रुतेः । वैदेही मां च लक्ष्मी च ज्ञात्वा प्रेक्षका दिक्षु-सन् इह आगमिष्यति । तेनैवंविधप्रकटवासं प्रकटावस्थानं न रोचये अतो यत्र परमानन्दैकताने मयि वैदेही रमते “ यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्गविमृग्यमाणया" इत्यादिरीत्या सर्वैराश्रयणीयापि लक्ष्मीः अनवरतानुभवेप्यद्यारब्धानुभवेव नित्यानु ॥१८१॥ रक्ता भवति तम् आश्रीयत इति आश्रयं जगत् तस्य स्थानम् आधारभूतं सर्वोत्तम स्वरूपगुणविभवेर्बह्मरुद्रादिभ्यः श्रेष्ठतम मा ममातिप्रियतमस्त्वमेवेकान्ते पक्ष्य गुह्याद्गुह्यतमं मत्स्वरूप न प्रकटयेति रहस्योपदेशः । (रमते पत्र वैदेही इति पाठः ॥२६॥
For Private And Personal Use Only