________________
Shri Mahajan Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsun Gyarmandie
प्रतीक्षमाणाववतस्थतुरित्यर्थः ॥ १०॥ स प्रविश्येत्यादिश्शोकद्वयम् । प्रविश्य देवान्निर्गवशिष्यमुखेनेतिशेषः । संशितव्रतं तीक्ष्णव्रतम् । एकाग्रम् एकप्रधानम्, ध्यानपरमिति यावत् । तपसा तपोवैभवेन । लब्धचक्षुषं लब्धज्ञानम् । अतीतानागतवर्तमानयावदर्थगोचरज्ञानयुक्तमित्यर्थः। दृष्ट्वैव दर्शनो
स प्रविश्य महात्मानमृषि शिष्यगणैर्वृतम्। संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ ११॥ हुताग्रिहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः । रामः सौमित्रिणा सार्द्ध सीतया चाभ्यवादयत् ॥१२॥ न्यवेदयत चात्मानं तस्मै लक्ष्मण पूर्वजः। पुत्रौ दशरथस्यावां भगवन रामलक्ष्मणौ ॥ १३॥ भार्या ममेयं वैदेही कल्याणी जनकात्मजा । मां चानु याता विजनं तपोवनमनिन्दिता ॥ १४॥ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः । अयमन्वगमभ्राता वनमेव दृढव्रतः ॥१५॥ पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् । धर्ममेव चरिष्यामस्तत्र मूलफलाशनाः ॥१६॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः। उपानयत धर्मात्मा गामय॑मुदकं ततः॥१७॥ नानाविधानन्नरसान वन्यमूलफलाश्रयान । तेभ्यो ददौ तप्ततपावासं चैवाभ्यकल्पयत् ॥१८॥ मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः।
राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ १९॥ त्तरकालमेवेत्यर्थः ॥११॥१२॥न्यवेदयतेत्यादिश्लोकद्वयमेकान्वयम् । सीतालक्ष्मणयोः सर्वात्मना परतन्त्रत्वादात्मानमित्यनेन तयोरपि ग्रहणम् । कल्याणी पतिव्रतेत्यर्थः । अनुयातेति न्यवेदयतेतिसम्बन्धः ॥ १३-१५॥ पित्रेति । धर्म पितृवचनपरिपालनरूपम् ॥ १६ ॥ तस्येति । गां मधुपर्का
भूतमहोक्षम् । तथा च स्मृतिः-"गोमधुपर्काहों वेदाध्यायी आचार्य ऋत्विक स्नातको राजा वा धर्मयुक्तः" इति । अयं पूजाविधेरङ्गम् । अन्नरसान् अदनीयरसान्, रसप्रधानान् पदार्थविशेषानित्यर्थः । वन्यमूलफलाश्रयान् वन्यमूलफलप्रकृतिकान् ॥ १७॥ १८॥ मृगपक्षिभिरिति । मृगपक्षिभि स इति । प्रविश्य उटजमिति शेषः । तपसा लब्धचक्षुषं त्रैकालिकसर्वजगद्वृत्तान्ताभिज्ञम् ॥११॥१२॥ न्यवेदयत चात्मानमित्यारभ्य तत्र मूलपालाशना इतिपर्यन्तं स्ववृत्तान्तपूर्वकमात्मानं भरद्वाजाय न्यवेदयतेति सम्बन्धः ॥१३-१६॥ तस्येति । मां मधुपर्काङ्गभूतं महोक्षं अयं पूजाविधेरह गन्धादि ॥१७॥ वन्यमूलफलाश्रयान वन्यमूलफलप्रकृतिकान् ॥ १८ ॥ मृगपक्षिमिस्सह राघवमभ्यर्च्य आसीन इति योजना । मृगपक्षिभिस्सहाभ्यच्येत्यस्यायं भाष-मुनिप्रभावात्तिर्यक्षो न, राममीवर
For Private And Personal Use Only