________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चिन्तय ॥२४-२६ ॥ एतदिति । अर्थग्राहकम् अर्थबोधकं यथा भवति तथा । यद्वा अर्थग्राहकं बह्वर्थवत् अब्रवीत् ॥ २७॥ दशकोश इत्यादि यस्मिन् गिरौ निवत्स्यसि स गिरिरतो दशकोशः, दशकोशावस्थित इत्यर्थः । गन्धमादनसन्निभः गन्धमादनपर्वतसन्निभः । अतीतानागतवर्तमानज्ञो.
एतच्छुत्वा शुभं वाक्यं भरद्वाजो महामुनिः । राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ॥२७॥ दशकोश इतस्तात गिरियस्मिन्निवत्स्यसि । महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ॥२८॥ गोलाङ्ग्रलानुचरितो वानरक्षनिषेवितः। चित्रकूट इति ख्यातो गन्धमादनसनिमः ॥२९॥ यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते । कल्याणानि समाधत्ते ।
न पापे कुरुते मनः ॥३०॥ ऋषयस्तत्र बहवो विहृत्य शरदां शतम् । तपसा दिवमारूढाः कपालशिरसा सह ॥ ३१ ॥ महर्षिः गोलागूलानुचरितो वानरक्षनिषेवित इति केवलत्रिवर्गाभिधानेन एतत्सजातीया एव रामस्य सहाया अपि भविष्यन्तीति सूचितवानिति गम्यते ॥२८॥२९॥ यावतेति । नरः यावता दूरेण चित्रकूटस्य शृङ्गाण्यवेक्षते तावता कल्याणानि पुण्यकर्माणि समाधत्ते प्राप्नोति । यदा समान धत्ते आचरति पापे मनोन कुरुते, तत्र वसन् किमुतेति भावः । यद्वा यावता कालेन ॥३०॥ ऋषय इति । तत्र चित्रकूटे । शरदां शतं तपसा विहृत्य क्रीडन्त इव महत्तपः परिसमाप्येत्यर्थः । कपालशिरसा सह दिवमारूढाः तपश्चरणेन निरन्तरकपालासनेन प्रशीणत्वशिरोरुहतया कपालावशिष्ट शिरसा सह दिवमारूढा इत्यर्थः । कपालशिरसेत्येतच्छरीरोपलक्षणम् । सशरीराः स्वर्गगता इत्यर्थः । यद्वा कपालाशरा इति कस्यचिदृषेः संज्ञा कपालशिरसा कपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके । कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येके ॥३१॥ अर्थग्राहक परमार्थबोधकम् । राघवस्य राघवत्वेनाभिनयं चिकीर्षतः श्रीविष्णोः । एतत्पूर्वोक्तं वाक्यं श्रुत्वामुनिर्वाक्यमबदीदिति सम्बन्धः ॥२७॥ श्रीरामोक्तमङ्गी कृत्य रामेणाश्रमस्थानं पृष्ट इव रामस्य वासार्थ स्थानं कथयति-दशक्रोश इति। यस्मिन् गिरौत्वं निवत्स्यसिस गिरिः। इतोऽस्मदाश्रमाद्दशक्रोशः, दशक्रोशावस्थित इत्यर्थः ॥२८॥२९॥ यावता यदा शृङ्गाण्यवेक्षते तदेवेति योजना॥३०॥शरदां शतं तपसा विहृत्य क्रीडन्त इव,तपः परिसमाप्येत्यर्थः। कपालशिरसासह दिवमारूढाः। तपश्चरणे निरन्तरकपालासनेन क्षिप्रक्षीणत्वविच्छरोरुहतया कपालावशिष्टशिरसासह सर्वे दिवमारूढाः, कपालशिरसेत्येतच्छरीरस्याप्युपलक्षणम् । सशरीराः स्वर्ग कतक-केचित्तु कपालशिरसेति शरीरोपलक्षणम् । सशरीराःस्वर्ग गता इत्याहुः । तन्न धर्मपुत्रादीनामपि कियरमेव धर्मवैभवदर्शनार्यतच्छरीरेण गमनम्, ततस्तन्निरासपूर्वकमेव स्वर्गगमनश्रवणात् ॥ ३१॥
For Private And Personal Use Only