________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. ।।१७९॥
नेतदिति । परितप्यस इति यदिदमस्ति पतत् परिदेवनम् नौपयिकं न युक्तम् । “युक्तमोपपिकम्" इत्यमरः । “उपायाधस्वत च" इतिठक् । आकाटी .म.का. रस्य ह्रस्वश्च । अयुक्तत्वमेवाह-विषादयसीति । पुरुषर्षभेत्यनेन पुरुषधौरेयस्य तव नैतद्युक्तम् । अनेन विलापोन युक्त इत्यर्थः॥३०॥ 'अयोध्यामित एव स. ५३
नैतदौपयिकं राम यदिदं परितप्यसे । विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ ३० ॥ न च सीता त्वया हीना। न चाहमपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥३१॥ न हि तातं न शत्रुघ्नं न सुमित्रां परंतप। द्रष्टुमिच्छेयमद्याहूं स्वर्ग वापि त्वया विना ॥ ३२ ॥ ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृतां
शय्यो भेजाते धर्मवत्सलौ ॥ ३३॥ त्वं काल्ये प्रविश लक्ष्मण' इति यदुक्तं तत्रोत्तरमाह-न च सीतेति । त्वया हीना सीता च न जीवतीत्यर्थः। त्वविहीनोऽहमपि नच। च एवकारार्थः। अहमपि नजीवाम्यवेत्यर्थः। दृष्टान्तार्थ सीताग्रहणम् । यद्वा 'सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्' इति सीतापुरुषकारेण शरणागतिकरणात् स्वस्य शरणागति फलाभावे पुरुषकारभूता सीतापि नेति भावः। अपि जीवावः यदि जीवावः तदा जलादुद्धृतो मत्स्याविव मुहूर्त स्वल्पकालं जीवावा, यथा जलोवृतो। मत्स्यौ यावज़लसंसर्ग जीवित्वा तद्विलये विनश्यतः तथा आवामपि त्वदचनहृदयज्ञानपर्यन्तमिति भावः। तथा वक्ष्यति सुन्दरकाण्डे-" न चास्य । माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा । तावद्ध्यहं दूत जिजीविषेयं यावत्प्रवृत्चि शृणुयां प्रियस्य ॥” इति ॥३३॥ अथ नोत्कण्ठितु मईसीत्युक्तस्योत्तरमाह-नदि तातमित्यादिश्वोकेन ॥३२॥ तत इति । ततः लक्ष्मणवचनानन्तरम् । तत्र पूर्वाश्रितवृक्षमूले भक्तिस्थाने । सुखासीनौ । नेतदिति । हे राम ! मां च सीतां च विषादयसीति यत् इदं च, हे पुरुषर्षभ ! त्वं परितप्यस इति यत् एतच्च तव नौपयिकं न युक्तमिति सम्बन्धः । पुरुषर्षभस्य नतापो युक्तः। रामस्य विषादपितृत्वं च न युक्तमिति भावः ॥३०॥ सीतावदहमायवर्जनीय इति वक्तुमात्मनः सीतासाधर्म्यमाह-न चेति । अत्र नकारद्वयं तृतीयनकारस्याप्युपलक्षणम् । हे राधव ! त्वया हीना सीता च त्वया हीनोऽहं च । एतावुभावावामपि जलादुदृतो मत्स्याविव मुहूर्तमपि न जीवाव इति मम्बन्धः । अनेन श्रीरामवियोगभिया लक्ष्मणेन स्वदैन्यं प्रदर्शितम् ॥३१॥ नन्वेवमाग्रहो न कार्यः, पित्रादिसंरक्षणार्थमवश्यं गन्तव्यमिति वदन्तं प्रत्याह- ॥१७॥ नहीति । हे परंतप ! त्वया विना तातं शत्रुघ्नं सुमित्रां च अद्य प्राप्त स्वर्ग वा द्रष्टुमपि नेच्छेयम् मनसापति शेषः । किमुत गत्वा संरक्षितुमिति भावः ॥ ३२ ॥ तत इति । ततो लक्ष्मणवचनानन्तरम् । तत्र तस्मिन्नेव न्यग्रोधमूले सुखासीनी सीतारामौ न्यग्रोधे न्यग्रोधमूले सुकृता लक्ष्मणेन सम्यग्रचितां शय्यां निरीक्ष्य
For Private And Personal Use Only