________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandir
अतएव शोचन्त्याः अम्बायाः किश्चिदपि नोपकुर्वता मया पुत्रेण किं कार्य किं प्रयोजनम् ॥२३ ।। न केवलं प्रयोजनालाभः प्रत्युत दुःखितेवेत्याहअल्पभाग्येत्यादिश्लोकेन ॥२४॥ ताई मातृदुःखनिवारणाय राज्यमाकम्यतामित्यवाह-एक इत्यादिश्लोकद्वयेन । तरेयं तरितुं शक्नुयाम् । आक 5
अल्पभाग्या हि मे माता कौसल्या रहिता मया । शेते परमदुःखार्ता पतिता शोकसागरे ॥ २४ ॥ एको ह्यह मयोध्यां च पृथिवीं चापि लक्ष्मण । तरेयमिषुभिः क्रुद्धोननु वीर्यमकारणम् ॥२५॥ अधर्मभयभीतश्च परलोकस्य चानघ । तेन लक्ष्मण नाद्याहमात्मानमाभिषेचये॥२६॥ एतदन्यच्च करुणं विलप्य विजने वने । अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥२७॥ विलप्योपरतं रामं गतार्चिषमिवानलम् । समुद्रमिव निर्वेगमाश्वासयत
लक्ष्मणः ॥२८॥ध्रुवमद्य पुरी राजन्नयोध्याऽऽयुधिनां वर । निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥२९॥ मितुं शक्नुयामित्यर्थः । तार्ह किमर्थं तथा न कृतमित्यत आह ननु वीर्यमकारणमिति । धर्महानिकरे कृत्ये वीर्य साधकत्वेन नावलम्बनीयं खल्वि त्यर्थः ॥२५॥ वीर्यस्यानयलम्बने हेतुमाह-अधर्मेति । अधर्मभयभीतः अधर्मादुत्पन्नं भयं लोकापवादः तस्माद्रीतः परलोकस्य नाशात भीत इति । शेषः । अहमिति च शेषः । तेनाधर्मपरलोकभीतत्वेन हेतुना ॥२६ ।। एतदिति । एतत्पूर्वोक्तमर्थजातम् । अन्यदित्यनेन तादात्विकविलापस्य । वाचामगोचरत्वमुक्तम् । विजने वन इति शोकहेतुत्वोक्तिः । उपाविशत् आतिष्ठदित्यर्थः ॥ २७ ॥ विलप्येति । विलप्योपरतमित्यनेन मध्ये समाश्वासानहत्वोक्तिः ॥ २८ ॥ध्रुवमिति । आयुधिनाम् आयुधवतां वर, शूरेत्यर्थः । निष्प्रभा भवेदिति शेषः ॥२९॥ एक इति । तरेयं तरितुं शक्नुयाम् । जयेयमित्यर्थः ॥ २५॥ अधर्मेति । अधर्मभयात् पितृवाक्याकरणरूपाधर्मभयात् । परलोकस्य चेति नाशाद्रीत इति शेषः ॥२६॥ पतदिति । अश्रुपूर्णमुख इत्यस्यायं भावः-श्रीरामस्य परमकरुणाशालित्वेन स्वानुरक्तजनदुम्बासहिष्णुत्वादश्रुपूर्णमुखत्वम् नतु वस्तुतः । “व्यसनेषु । मनुष्याणां भृशं भवति दुःखितः" इत्युक्तेरिति ॥ २७ ॥ २८ ॥ ध्रुवमिति । आयुधिनामिति पदच्छेदः ॥ २९ ॥
स०-मया पितुराज्ञाया अकरणे सर्वेप्येवमेव कुर्युः ततश्च तेषामधर्मो भवेत् अतः अधर्ममपभीतश्च लोकस्याधर्मप्राप्तिमयाद्रीतोहम् । परकीयजनस्य सकाशाद्रीत इति बुद्धचा विवेकेनान्वयः । रामः पितुराशा नाकादिति लोकापवादमीतवेत्यर्थः ॥ २९ ॥ विलय लोकविडम्बना विलापं कृत्वा । तदानीमपि निशाचरसधारादितम्बों युक्तः ॥ २७ ॥
IN
For Private And Personal Use Only