________________
Acharya Shri Kalassagarsun Gyarmandir
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
सुखोपविष्टौ। सुखासीना च सुखासीनश्च सुखासीनौ । सर्वत्र "पुमान् स्त्रिया" इत्येकशेषः । सीतारामौ न्यग्रोधे न्यग्रोधमूले । सुकृता लक्ष्मणेन सुटु कृता शय्यां निरीक्ष्य तां भेजाते इतिसम्बन्धः॥३३॥ स लक्ष्मणस्येति । उत्तमं च तत् पुष्कलं च उत्तमपुष्कलम् । अतीव भ्रातृस्नेहपुरस्कृतत्वादुत्तमं वक्तव्यस्य
स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात् । समाः समस्ता विदधे परंतपः प्रपद्य धर्म सुचिराय राघवः ॥३४॥ ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्द्धनौ । न तौ भयं सम्भ्रममभ्युपेयतुर्यथैव सिंहौ गिरिसानुगोचरौ॥ ३५॥ इत्या श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥५३॥ ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम् । विमलेऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ॥१॥ यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते । जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥२॥ ते भूमिभागान् विविधान देशांश्चापि
मनारमान् । अदृष्टपूवान् पश्यन्तस्तत्रतत्र यशस्विनः ॥३॥ सर्वस्योक्तः पुष्कलं पूर्णार्थ लक्ष्मणस्य वचः आदरानिशम्य चिराय धर्म वानप्रस्थधर्मम् अधःशयनादिकं प्रतिपद्य । समस्ताः समाः वनवासम् । अत्यन्त संयोगे द्वीतीया । विदधे लक्ष्मणेन सह विधातुमैच्छदित्यर्थः। अन्यथा भूतार्थासम्भवः। कविनाप्यादौ तथा वक्तुमयुक्तम् । लक्ष्मणस्य समस्ताः समाः प्रत्य नुमति विध इति केचिदाहुः ॥ ३४ ॥ तत इति । भयं व्याघ्रादिभ्यः। सम्भ्रमं व्याकुलत्वं भयहेतुशया इतस्ततो निरीक्षणमिति यावत् ॥३५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३ ।। ते विति । महावृक्षे महावृक्षमूले ।
सामीप्ये सप्तमी । विमलेऽभ्युदिते स्पष्टमुदित इत्यर्थः ।।३।। यत्रेत्यादिश्वोकद्वयमेकान्वयम् । भूमिभागान् वनप्रदेशान् । देशान् वत्सदेशावान्तरदेशान् । लता भेजाते इति सम्बन्धः ॥॥ स इति । लक्ष्मणस्य वनवासं प्रत्यादरेणोच्यमानम् अत एवोत्तमपुष्कलमत्यन्त श्रेष्ठ वचो निशम्प स्वयं चिराय धर्म प्रपद्य
स्वीकत्य लक्ष्मणस्य समाप्ताः समाः प्रत्यनुमति विदधे च । वनवासायेति शेषः ॥ ३४ ॥ तत इति । सम्भ्रमम् इतस्ततोऽन्वीक्षणादिरूपम् ॥ ३५॥ इति श्रीमहे| भातीविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिपश्चाशः सर्गः ॥ ५५ ॥१॥ यत्रेति । गङ्गामभि यमुना प्रवर्तत इति योजना । तं देशं प्रयागदेशम् ॥ २॥त इति । ते पश्यन्तो जग्मुरिति पूर्वणान्वयः ॥३॥ सक-धर्म स्वाअषणरूपम् । प्रपद्याजकत्य । समस्ताः समाः चतुर्दशवर्धागि वनवास प्रति विदये, लक्ष्मण सम्मतमकरोदियर्थः ॥ १४ ॥
For Private And Personal Use Only