________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स इति । वत्सान् वत्सदेशान् । मत्स्यानिति पाठो लेखकप्रमादकृतः। इत्थं हि देशव्यवस्था दृश्यते-गङ्गायमुनयोर्मध्ये प्रयागप्रदेशोवत्सदेशः। ततः। पश्चिमभागे पाञ्चालः। यमुनादक्षिणतीरे शूरसेनदेशः । तस्मात्पश्चिमतो मत्स्यदेश इति । सलोकपालप्रतिमप्रभाववानितिपाठः । अन्यथा वृत्तभङ्गः
स लोकपालप्रतिमप्रभावांस्तीर्खा महात्मा वरदो महानदीम् । ततः समृद्धाञ्छुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत् ॥ १०॥ तो तत्र हत्वा चतुरो महामृगान् वराहमृश्यं एषतं महारुरुम् । आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम्॥१०२॥इत्यार्षे० श्रीरामायणे श्रीमदयोध्याकाण्डे द्विपञ्चाशः सर्गः॥५२॥ स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् । रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥१॥ अद्येयं प्रथमा रात्रिर्याता जनपदावहिः। या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥२॥ स्यात् ॥ १०१॥ ताविति । चातुर्विध्यमेवाह-वराहमित्यादि । ऋश्यादयो हरिणभेदाः।ऋश्यं पृषतं महारुरुंच आदाय, स्वीकृत्येत्यर्थः। मध्यामिति ऋश्यादि सर्वविशेषणम् । काले सायंकाले । त्वरितत्वोक्तिः सायंकालत्वात् बुभक्षितत्वाच्च । द्विवचनेन सीता कुत्रचिद्वनस्पतिमूले निक्षिप्य मृगग्रह णार्थ गत्वा पुनरागताविति गम्यते ॥१०२॥ इति श्रीगोविन्दराज. श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विपञ्चाशः सर्गः॥५२॥ स तमित्यादि । अत्र मृगमांसादनमस्तमयात् प्रागर्थसिद्धम् । अन्वास्य उपास्य ॥१॥ अद्येति । याता प्राप्ता । अद्येत्यस्य नोत्कण्ठितुमईसीत्यनेना तस्मात्कारणाद्वनवासस्य दुःखं वेत्स्यतीति सम्बन्धः ॥९८-१०० ॥ स इति । वत्सान् वत्सदेशान् ॥ १०१ ॥ तत्रेति । ऋश्यादयो हरिणभेदाः । काले सायङ्काले॥१०२॥ इति श्रीमहेश्वरतीयविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्याया द्विपक्षाशः सर्गः ॥ ५२ ॥॥१॥ अद्येति ।। जनपदावहिः अस्मज्जन पदावहिंदेशे । अद्येयं रात्रिर्याता आयाता प्राप्ता, केवलं वनवासरात्रिषु प्रथमा । या चेयं सुमन्त्रेण च रहिता, तामिमा प्राप्य । उत्कण्ठितुं शोकस्मरणं कर्तुं नाहसि ॥२॥
2 सा-याता आयाता | उपसर्माणां धातुलीनार्थबोधकत्वस्य “ गते अवगम्यते चरणाभिधानात् विचरणाभिधानात् " इत्यादौ दर्शनात् । ता रात्रिम् । " कालावनोत्पन्तसंयोगे " इति द्वितीया । उत्क ७ण्डितुं गृहदारादिस्मरणेन चित्त न्याकुलीफ नाईसि ॥ २॥
For Private And Personal Use Only