________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू
॥१७७॥
जान्वयः। उत्कण्ठा दुःखस्मरणं तां प्रतीतिशेषः ॥२॥ जागर्तव्यमिति । योगक्षेमं पालनमितियावत् । आवयोर्वर्तते, अस्मदधीनमित्यर्थः ॥३॥रात्रिी टी.अ. का. मिति । कथञ्चिदेवेमामिति । प्राथमिकत्वादिति भावः । इमां शय्यासम्पादनात् पूर्वमेव प्राप्तां स्वयमार्जितैः, तृणपणेरितिशेषः । उपावर्तामहे शयिष्या स० ५३
जागर्त्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु । योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः ॥३॥रात्रिं कथञ्चिदेवेमा सौमित्रे वर्तयामहे । उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः॥ ४॥ स तु संविश्य मेदिन्यां महार्हशयनोचितः। इमाः सौमित्रये रामो व्याजहार कथाः शुभाः ॥५॥ ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण। कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥६॥ सा हि देवी महाराज कैकेयी राज्यकारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् ॥७॥ अनाथश्च हि वृद्धश्च मया चैव विनाकृतः। किं करिष्यति कामात्मा कैकेयीवशमागतः ॥८॥ इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् । काम एवार्थधर्माभ्यां गरीयानिति मे मतिः॥९॥ को ह्यविद्वानपि पुमान प्रमदायाः कृते त्यजेत् । छन्दानुवतिनं पुत्रं ततो मामिव लक्ष्मण ॥१०॥ सुखी बत सभार्यश्च भरतः
केकयीसुतः । मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ ११ ॥ महे । वर्तमानसामीप्ये वर्तमानवद्भावः ॥ ४ ॥ स इति । संविश्य शयनं सङ्कल्प्योषित्वा । शयनस्य सर्गान्ते वक्ष्यमाणत्वात् । कथाः वार्ताः॥५॥ध्रुव मिति । कृतकामा फलितेच्छा ॥६॥ सा हीति । राज्यकारणात राज्यस्थैर्यकारणात् । ननु "नतेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन । तामेवेक्ष्वाकु । नाथस्य भरतस्य कथां कुरु ॥" इतिवदतो रामस्य सर्वपुरुषार्थनिस्पृहस्य कथमेवंविधाः कैकेयीनिन्दाप्रधानाः स्वालाभगर्भा उक्तयो युज्यन्ते ? उच्यते-'अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण' इति वक्ष्यति । अतस्तन्मतमनुवर्तितुमेवमुक्तमिति ज्ञेयम् ॥ ७॥८॥ इदमिति । व्यसनं मदीयं मतिविभ्रमम् । अर्थधर्मों विहाय कामैकसेवित्वम् । (पाठभेदः । व्यसनं मदीयम् । अनेन धर्मस्याप्राधान्यमुकम् । मतिविभ्रमम् अतिनिस्पृहत्वम् । अने) नार्थाप्राधान्यमुक्तम्)॥९॥ कामस्य गरीयस्त्वमुपपादयति-क इति । छन्दानुवर्तिनं स्वेच्छानुवर्तिनम् ॥१०॥११॥
Hal॥१७७॥ जागर्तव्यमिति । सीताया योगक्षेमो आवयोर्वतेते, सीताया योगक्षेमावस्मदायत्तावित्यर्थः ॥ ३॥ रात्रिमिति । कथञ्चिदेवेमामिति उटजादिनिर्माणाभावात् स्वय मार्जितैः तृणपर्णादिभिरिति शेषः॥ ॥ इमाः कथाः गिरः ॥५॥६॥ सा हीति । कैकेयी भरतं दृष्ट्वा राज्यकारणान्महाराजपदाभिषेककारणान्महाराज प्राणान्न
For Private And Personal Use Only