________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्णधारसमाहिता समाहित कर्णधारा । शुभस्फ्यवेगाभिहता शुभानां रुफ्पानामरित्राणां वेगेनाभिहता प्रणुन्ना ॥ ८१ ॥ ८२ ॥ पुत्र इति । निदेशं चतुर्दश | वर्षावधिक वनवासविषयनियोगम् । पारयित्वा निर्विघ्नं परिसमाप्य । उष्य उषित्वा । प्रत्यागमिष्यति, यदेति शेषः ॥ ८३ ॥ ८४ ॥ तत इति । ततः मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता । वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ८२ ॥ पुत्रो दशरथ स्यायं महाराजस्य धीमतः । निदेशं पारयित्वेमं गङ्ग त्वदभिरक्षितः ॥ ८३ ॥ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ८४ ॥ ततस्त्वां देवि सुभगे क्षेमेण पुनरागता । यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ॥ ८५ ॥ त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे । भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे ॥ ८६ ॥ सा त्वां देवि नमस्यामि प्रशंसामि च शोभने । प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ ८७ ॥ गवां शतशुहस्रं च वस्त्राण्यन्नं च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रियंचिकीर्षया ॥ ८८ ॥ सुरा घटसहस्रेण मांसभूतौदनेन च । यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ॥ ८९ ॥ यानि त्वत्तीरवासीनि दैवतानि वसन्ति च । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ ९० ॥
तदा । सुभगे सुर्कीर्ते । “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु" इत्यमरः । क्षेमेण कुशलेन सह । यक्ष्ये पूजयिष्यामि । सर्वकामसमृद्धिनीति श्रीह्यादि त्वादिनिः ॥ ८५ ॥ त्वमिति । ब्रह्मलोकं समीक्षसे ब्रह्मकमण्डल्वां द्रवीभूतधर्मरूपतया स्थित्वा ब्रह्मप्रक्षालित विष्णुपादोद्भवत्वादिति भावः । अत एव विष्णुपादोद्भवामिति पूर्वमुक्तम् ॥ ८६ ॥ सेति । प्रशंसामि स्तौमि । शिवेन क्षेमेण । पेशलं रम्यम् । तव प्रियचिकीर्षया ब्राह्मणमुखेन हि देवतानां ग्रहण | मितिभावः ॥ ८७॥८८॥ सुराघटसहस्रेणेति । मांसभूतौदनेन मांसरूपान्नेनेतियावत् ॥ ८९ ॥ यानीति । तीर्थानि मणिकर्णिकादीनि । आयतनानि काश्या अरित्रम् तेन वेगादभिहता प्रणुन्ना ॥ ८१-८९ ॥ यानीति । यानि तीर्थानि प्रयागादीनि आयतनानि काश्यादीनि ॥ ९०-९३ ॥
स० [पगे श्रीनू पधान् गच्छतीति त्रिपथगा "वाट पar मार्ग " इति त्रिकाण्डशेषामरः । यद्वा त्रयाणां पथ समाहारविपथं भूर्भुवस्तुवराख्यं तेन गच्छतीति तथा तस्याः सम्बुद्धिः । ब्रह्मलोकं सत्यलोकम् (त्वं हि त्रिपथ देवि इति पाठ: ॥ ८६ ॥
For Private And Personal Use Only