SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१७५ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin इत्यमरः ॥ ७३ ॥ ७४ ॥ आरोहेति । स्थितामिमां नावं परिगृह्य सीतां शनैरारोपय । अन्वक्षम् अनुपदं त्वं चारोहेति सम्बन्धः । यद्वा त्वं प्रथममारोह अन्वक्षं मनस्विनीं सीतां परिगृह्य कराग्रयोर्गृहीत्वा आरोपयेत्युपचारोक्तिः। मनस्विनीमिति निन्दायां मतुप् । भीरुमिति यावत् । पूर्वारोहणेऽसौ बिभीया आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः । सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ ७५ ॥ स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् । आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ ७६ ॥ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः । ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ ७७ ॥ राघवोऽपि महातेजा नावमारुह्य तां ततः । ब्रह्मवत् क्षत्त्रवच्चैव जजाप हितमात्मनः ॥ ७८ ॥ आचम्य च यथाशास्त्रं नदीं तां सह सीतया । प्राणमत् प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ॥ ७९ ॥ अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् । आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ ८० ॥ ततस्तैश्वोदिता सा नौः कर्णधारसमाहिता । शुभस्प्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ ८१ ॥ दितिभावः ॥ ७५ ॥ लक्ष्मणस्तु निपुणतया प्रथमं सीतामारोप्य पश्चात्स्वयमारूढ इत्याह- स भ्रातुरिति । अप्रतिकूलयन् यथातथावाप्यारोहणशासन मनुतिष्ठन् । आत्मवान् रामाशयज्ञ इत्यर्थः । पूर्व मनस्विनीमित्युक्तम्, इदानीमात्मवानित्युक्तम् । उभाभ्यामारोपणे दोषशङ्काराहित्यं चोक्तम् ॥ ७६ ॥ अथेति । ज्ञातीन् बन्धून् अचोदयत् नौः पारं नीयतामित्यचोदयत् ॥ ७७ ॥ राघव इति । ब्रह्मवत्क्षत्रवदित्यर्थे वतिप्रत्ययः । ब्राह्मणार्हे क्षत्रियाईम् । आत्मनो हितं जजाप “देवीं नावम् " इत्यादिब्रह्मक्षत्रसाधारणमन्त्रं जजापेत्यर्थः । यद्वा ब्रह्मक्षत्रशब्दयुक्तं मन्त्रं जजापेत्यर्थः । स च मन्त्रः सुत्रामाण || मित्यादिः । तत्र ह्यरिष्टनेमिः पृतनाजिदिति ब्रह्मक्षत्रशब्दौ श्रुतौ ॥ ७८ ॥ पूर्वोक्तं नावारोहणं विवृण्वन्नाह - आचम्पेत्यादिना ॥ ७९ ॥ ८० ॥ तत इति । आरोहेति । नावं परिगृह्य सीतामादाय अन्वक्षं पश्चात् त्वमप्यारोहेति सम्बन्धः ॥ ७५ ॥ स इति । अप्रतिकूलयन् अनुकूलयन् ॥ ७६ ॥ ७७ ॥ राघव इति । ब्रह्मवत क्षत्रवत् । अर्हार्थे वतिः । ब्राह्मणक्षत्रियाई नावारोहणमन्त्रमात्मनो हितमुद्दिश्य जजापत्यन्वयः । “ सुत्रामाणमृचा नावमारोहेदप उत्तरेत् " इति क्षत्रिया धिकारेण स्मरणात्। " देवीं नावम् इत्यादिब्रह्मक्षत्रसाधारणं मन्त्रं जजापेत्यर्थः ॥ ७८-८० ॥ तत इति । कर्णधारसमाहिता नाविकेन सज्जीकृता । स्फ्यम् For Private And Personal Use Only टी.अ.कां. स० [५२ 1180411
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy