________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
लक्ष्मणे प्रयोज्यकर्तृत्वं बोध्यम् ॥ ६८ ॥ ऋषिः खिद्यति-दीर्घबाहुरिति । जटिलत्वं जटावत्त्वम् । तुन्दादित्वादिलच् ॥६९॥ तस्यामप्यवस्थायां । दर्शनीयतमत्वमाह-तावित्यादिश्लोकेन ॥७०॥ तत इति । विखना नाम ब्रह्मनखोत्पन्नः कश्चिन्मुनिः “ये नखाः ते वैखानसाः। ये वालास्ते वालखिल्याः" दीर्घबाहुनरव्याघ्रो जटिलत्वमधारयत् ॥ ६९ ॥ तौ तदा चीरवसनौ जटामण्डलधारिणौ । अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ७० ॥ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः । व्रतमादिष्टवान रामः सहायं गुह मब्रवीत् ॥ ७१॥ अप्रमत्तो बले कोशे दुर्गे जनपदे तथा। भवेथा गृह राज्यं हि दुरारक्षतमं मतम्॥७२॥ ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः। जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ७३ ॥ स तु दृष्ट्वा नदीतीरे नाव मिक्ष्वाकुनन्दनः । तितीर्घः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ ७४ ॥ इत्युक्तेः । सिंहादिशब्दवर्णविपर्ययः । तेन प्रोक्तं वैखानसम् । प्रोक्तार्थे अण् । मार्ग धर्ममित्यर्थः। वानप्रस्थधर्ममितियावत् । आस्थितः आश्रितः।। तं ब्रह्मचर्यादिनियमम् । आदिष्टवान् अङ्गीकृतवान् । नन्वत्र सर्वो वानप्रस्थधर्मोऽङ्गीकृतः उत यः कश्चित् ? नाद्यः-तस्य पुनर्माईस्थ्यग्रहणायोगात "आरूढपतितो हि सः" इत्युत्तराश्रमप्राप्तस्य पुनः पूर्वाश्रमावरोहो हि निन्दितः। न द्वितीयः-गृहस्थस्य वनस्थासाधारणजटाधारणादिकरणे शाखा रण्डवदाश्रमरण्डतापत्तेः । मैवम्, पितृनियोगकृतसाङ्कल्पिकनियमविशेषस्य युधिष्ठिरादिसंन्यासधर्मवदविरुद्धत्वात् । उक्तं हि मनुना-"सम्यकसङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्" इति । सहायं गङ्गावतरणसहायम् । सखायमिति च पाठः ॥ ७१ ॥ अप्रमत्त इति । बले चतुरङ्गबले । कोशे अर्थोंघे । "कोशोऽस्त्री कुडमले खड़पिधानेऽयोपदिव्ययोः" इत्यमरः । दुरारक्षं दुःखेन आ समन्तात् रक्षितुं शक्यम् (पाठभेदः । दुःखेन आरक्षा रक्षणं यस्य। तहुरारक्षम् । अतिशयेन दुरारक्षं दुरारक्षतमम् । भवेथा इत्यार्षमात्मनेपदम् )॥७२॥ तत इति । अव्यग्रः अव्यासक्तः " व्यग्रो व्यासक्त आकुलः" लक्ष्मणस्य च अनुमत्येति शेषः । अन्यत्समानम् ॥ ६७-७० ॥ तत इति । वैखानसं मार्ग वानप्रस्थधर्ममास्थितः प्राप्तस्सन । व्रतं वानप्रस्थव्रतमादिष्टवान् अङ्गी | कृतवान् । अस्य श्लोकस्य चतुर्थपादस्तूत्तरश्लोकेन सम्बध्यते ॥ ७१ ॥ अप्रमत्त इति । दुरारक्षतमं दुःखेन रक्षितुं योग्यतमम् ॥ ७२-७४ ॥
For Private And Personal Use Only