________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
तानि भविष्यन्तीतिभावः ॥५७ ॥ भृत्येति । हे भृत्यवत्सल ! भक्तं भृत्यम् । अत एव स्थित्यां मर्यादायां स्थितम् । अस्खलितमर्यादम् अतएव । भर्तृपुत्रगते स्वामिपुत्रेण त्वया गते पथि वनगमने तिष्ठन्तं निश्चितत्वदनुगमनं मां वं हातुं नाईसि ॥५८-६० ॥ नगरीमित्यादिश्वोकत्रयमेकान्वयम्
भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि । भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥५८॥ एवं बहुविधं दीनं याचमानं पुनःपुनः। रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ५९॥ जानामि परमां भक्तिं मयि ते भर्तृवत्सल। शृणु चापि यदर्थ त्वां प्रेषयामि पुरीमितः ॥६०॥ नगरी त्वां गतं दृष्ट्वा जननी मे यवीयसी । कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः॥६॥ परितुष्टा हिसादेवी वनवासं गते मयि। राजानं नातिशङ्केत मिथ्यावादीति
धार्मिकम् ॥ ६२॥ एष मे प्रथमः कल्पोयदम्बा मेयवीयसी। भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ॥६३॥ रामो वनं गत इति कैकेयी प्रत्ययं विश्वास गच्छेत् । धार्मिकं राजानं मिथ्यावादीति नातिशङ्केत । भरतारक्षितं भरतेन आ समन्तात् रक्षितं पुत्र राज्यम् अवाप्नुयादिति च यत्, एषः मे प्रथमः कल्पः कर्तव्येषु प्रयोजनेषु मुख्यः। "मुख्यः स्यात् प्रथमः कल्पः" इत्यमरः ॥६१-६३॥ भृत्येति । भर्तृपुत्रगते पथि राजपुत्राश्रिते पथि यथा भृत्येन स्थातव्यं तथा त्वद्विषये तिष्ठन्तम् तथा स्थित्यां स्थितमिति मन्त्रिणा राजनि राजकार्ये च तथा स्थातव्यम्, तस्यामेव स्थित्यो सदा स्थितम्, कदाप्यपराधरहितमिति यावत् ॥ ५८-६० ॥ नगरीमिति । रामो वनं गत इति कैकेयीप्रत्ययं गच्छेदिति योजना ॥६१॥ ६२ ॥ एष इति । अम्बा भरतारक्षितं भरतेनारक्षितम् अनुमन्ताद्रक्षितं पुत्रराज्य तजसुखमवाप्नुयादिति यत् एष मे प्रथमः कल्पः मुख्य प्रयोजनमिति
सत्य-दीनमिति क्रियाविशेषणम् । अनुकम्पशब्दोऽकारान्तोप्यस्ति । " मतानुकम्पादतिशुद्धसंविदाने " इत्यत्र तथोक्तेः । एवं च " अत इनिठनी" इत्यनेन भायानुकम्पीति साधुः । शिखादेराकृतिगण त्वेन तास्थत्वाद्वा आपवादा साधुरित्याहुः । भत्यानुकम्पस्स्विति पाठे तु विशेषः ॥ १९ ॥ विपरीते त्वदमनाभावे मथि वनवासं गतेपि । नेति न गत इति तुटिहीना सा कैकेयी धार्मिक राजानं मिथ्यावादीति अतिशत अतस्वया गन्तव्यमिति भावः । यद्वा विपरीते सुमन्त्रस्य तत्र स्थित्यपेक्षया विपरीते अयोध्या प्रति गमने । तुष्टिहीनेति वस्तुस्थितिकथनम् । मपि वनवास गते सति धार्मिक राजानं मिथ्यावादीति नातिशंकेतेति यथास्थानमेव नमोऽन्वयः ॥ १२ ॥ एषः राजविषये शङ्काभावरूपः । प्रथमः कल्पः वद्गमने प्रथम प्रयोजनम् । प्रयोजनान्तरं चाह-पदिशि । मे यबीपसी अम्बा भरतेन आरक्षितं सम्पप्रक्षित पुत्रराज्यं अवाप्यते प्रामोति । भरतागमनस्यापि त्वदमनाधीनत्वादिति भावः ॥ १३॥
For Private And Personal Use Only