________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. रथीभूत्वा निवर्तयिष्यामीत्यर्थः । तानि सत्त्वानीति पाठः । सर्वाणीति पाठे-सत्त्वानीति शेषः ॥५०॥ त्वदिति । त्वत्कृते त्वन्निमित्तम् । स्थचर्याकृतंटी .अ.का. ॥१७॥
सुखं मया नावाप्तम् । राज्याभिषिक्तत्वद्रथचर्याकृतसुखं मया भाग्यहीनेन न लब्धम्, तथापि त्वत्कृतेन त्वत्साहाय्यकरणेन वनवासकृतमपि सुखम्स .५ आशंसे इच्छामि । राज्ये रथचर्याकृतसुखाभावेपि वने सारथित्वेन परिचर्याकरणकृतं वापि सुखं मम भवतिति भावः। यदा वत्कृतेन त्वया कृतेना। त्वत्कृतेन मयावाप्तं रथचर्याकृतं सुखम् । आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥५१॥ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः। प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः॥५२॥इमे चापि हया वीर यदि ते वनवासिनः। परिचर्या करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ५३॥ तव शुश्रूषणं मूर्धा करिष्यामि वने वसन् । अयोध्या देवलोकं वा सर्वथा प्रजहाम्यहम् ॥५४॥न हि शक्या प्रवेष्टं सामयायोध्या त्वया विना । राजधानी महेन्द्रस्य यथा । दुष्कृतकर्मणा ॥५५॥ वनवासे क्षयं प्राप्ते ममैष हि मनोरथः। यदनेन रथेनैव त्वां वहेयं पुरी पुनः॥५६॥चतुर्दश
हि वर्षाणिसहितस्य त्वया वने। क्षणभूतानि यास्यन्ति शलसङ्ख्याऽन्यतोऽन्यथा ॥ ५७॥ अनुग्रहेणेत्यर्थः । रथचर्याकृतं रथप्रेरणकृतं सुखं मया अवाप्तम् । एवं त्वत्कृतेनानुग्रहेण वनवासकृतं सुखमप्यहमाशंस इति ।। ५१ ॥ प्रसीदेति ।
प्रत्यनन्तरः समीपवर्ती। मे प्रत्यनन्तरो भवेति प्रीत्याभिहितमिच्छामि । त्वत्कर्तृकमभिधानमिच्छामीत्यर्थः । क्रियतामिति मां वदेतिवत् ॥५२॥ इम इति । परमां गति स्वामिशुश्रूषणादितिभावः॥५३॥ तवेति । मूर्धेत्यस्य सोपचारमिति फलितार्थः। सर्वथा सर्वप्रकारेण ॥५४॥ नहीति । महेन्द्रस्य राजधानी स्वर्गः॥५५॥ वनवास इति । वनवासे क्षयं प्राप्ते बनवासे समाप्ते सतीत्यर्थः । वहेयमितियत् अयं मे मनोरथ इति सम्बन्धः॥५६॥ चतुर्दशेति । त्वया सहितस्येति ममेति शेषः । क्षणभूतानि क्षणतुल्यानि, अतोऽन्यथा त्वद्विरह इत्यर्थः । शतसङ्घयानि भवेयुरितिशेषः । शतगुणि त्वत्कृतेनेति। त्वया कृतानुग्रहेण । रथचर्याकृतं स्यप्रेरणकृतं सुखमवाप्तम् । वनवासकृतं सुखमाशंसे । अस्यायं भावः त्वमस्मिन् कुले अवतरिष्यसीति ज्ञात्वैव मन्त्रि | प्रधानोप्यहं त्वद्रथचर्यासेवाभाग्यं मम भविष्यतीति निन्द्यमपि सूतकुत्यं मया अङ्गीकृतम्, तेन भाग्यवशात्वत्सेवासुख प्राप्तमेव, इतःपरं वनवासकृतं सुखं वनवासेपि त्वत्सेवाकतं सुख आशंसे प्रार्थये इति ॥५१॥ प्रसीदेति । अरण्ये ते प्रत्यनन्तरः प्रत्यासन्नः अनुकूलो भवितुमिच्छामि त्वं मे प्रत्यनन्तरो भवेति त्वदभिहितं त्वदुक्त मिच्छामीति सम्बन्धः ॥५२-५५॥ वनवास इति । वनवासे वनवासयोग्यकाले क्षयं प्राप्ते पुरीं वहेयं प्रापयेयमिति यत् एष मे मनोरथ इति योजना ॥ ५६॥ ५७॥
॥१७३॥
For Private And Personal Use Only