________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वृत्तं संक्षोभो जातः तादृशं त्वया दृष्टं हि ॥४३॥ आर्तनाद इति । ततः प्रवासकालिकनादादित्यर्थः॥४४॥ यदि प्रियं बयां तदसत्यं भवति यदि च सत्यं बयां तदप्रियं भवति अतः कौसल्या प्रति किमपि वक्तुं न शक्यमित्यभिप्रायेणाइ-अहमित्यादिना । देवीमहं किं वा वक्ष्यामि न किमपि
आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने । सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ ४४ ॥ अहं किं चापि वक्ष्यामि देवीं तक सुतो मया। नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥४५॥ असत्यमपि नैवाहं ब्रूया वचनमीदृशम् । कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः॥४६॥ मम तावन्नियोगस्थास्त्वद्वन्धुजनवाहिनः । कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः॥४७॥ तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि ॥४८॥ यदि मे याचमानस्य त्यागमेव करिष्यसि । सस्थोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया
॥४९॥ भविष्यन्ति वने यानि तपोविघ्नकराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥५०॥ वक्तुं शक्नोमीत्यर्थः । तदेवोपपादयति तवेत्यादिना । तवासौ सुतो मया मातुलकुलं नीतः तस्मात् सन्तापं मा कृथा इतीदृशमसत्यवचनमप्यई नैव बूयाम् , असत्यवचनप्रतिषेधादितिभावः। सत्यमेव वदेत्यवाह कथमिति । अप्रियामिदं वनप्रापणरूपं सत्यं वचनं कथं ब्याम् । देव्या हानिप्रसङ्गादिति भावः ॥१५॥४६॥ ममत । त्वद्वन्धुजनाः त्वदंश्याः। यद्वा त्वं त्वद्वन्धुभूतसीतालक्ष्मणरूपजनौ च त्वदन्धुजनाः तदादिनः प्रवक्ष्यन्ति वोढारो भवि प्यन्ति । वहेलटि रूपम् ॥ १७॥१८॥ यदीति । त्यक्तमात्रः तत्क्षण एव त्यक्तः॥ १९॥ भविष्यन्तीति । रथेन साधनेन प्रतिबाधिष्ये अहमेव आतेति । सरयं भवद्विरहितरथयुक्तमित्यर्थः ॥ ४४॥ किश्च त्वद्वियोगदुःखितां त्वन्मातरं प्रति तव वनवासस्थितिर्वकुमशक्या, अपि तु तस्याः दुःखनिवृत्तये। असत्यमप्यहं ब्रूयामित्याह-अहमित्यादिश्लोकद्वयेन । किं चाहूं तव देवीं मातरं प्रति अहमेवमपि वक्ष्यामि, कयं तवासो सुतो मया मातुलकुलं कोसलदेशं नीतः नतु वनम्, अतो मा सन्तापं कृथा इति असत्यमीदृशं वचनमेवाई बयां सत्यमपीदं वचः बननयनवचनं कथमेवाहमप्रियं ब्रूयाम् “सत्यं ब्रूयात्रियं ब्रूयान ब्रूयात् । सत्यमप्रियम्" इति स्मरणादित्याशयः । यद्वा कोसल्यां प्रति किं वक्ष्यामीत्यभिप्रायेणाह अहमित्यादि। देवी कौसल्याम् । अहं किश्चापि वक्ष्यामि न किश्चिदपि वक्ष्यामि । कुतस्तव सुतो मातुलकुलं नीत इति शमसत्यमपि न ब्रूयाँ तर्हि सत्यं बहीति चेत् सत्यमपीदमप्रियं वचः कथं ब्रूयामिति सम्बन्धः ॥४५॥४६॥ ममेति । त्वद्वन्धुजनवाहिनः त्वां त्वद्वन्धुजनं सीतासौमित्रिरूपम् । वहनशीला: मम नियोगस्थाः मदधीनाः, कयं प्रवक्ष्यन्ति वहिष्यन्ति ॥ ४७-५० ॥
For Private And Personal Use Only