________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. ॥१७२॥
टी.अ.का.
ििनवास०५२
यदिति । अहमविक्लवः धृष्टस्सन् यदाक्यं बयां तनोपचारेण किंतु स्नेहात । तद्वाक्यं त्वं तावत् साकल्येन क्षन्तुमर्हसीति सम्बन्धः । (पाठ भेदः । तवस्त्रेहादविवो निर्भयः यद्वचः उपचारेण न ब्रूयाम् । सेवाधर्म विहाय ब्रूयाम् । तद्वाक्यं भक्तिमानितिहेतोः क्षन्तुमर्हसि) ॥ ३८ ॥ कथमिति ।
यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः। भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हति ॥ ३८ ॥ कथं हि त्वद्भिहीनोऽहं प्रतियास्यामि तां पुरीम् । तव तावद्रियोगेन पुत्रशोकाकुलामिव ॥३९॥ सराममपि तावन्मे रथं दृष्ट्वा तदाजनः। विना राम रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥४०॥ दैन्यं हि नगरी गच्छेदृष्ट्वा शून्यमिमं रथम् । सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥४१॥ दूरेपि निवसन्तं त्वां मानसेनाग्रतःस्थितम् । चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः
कृताः प्रजाः ॥ ४२ ॥ दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने। प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम्॥४३॥ तवतावद्वियोगेनेतिपाठः । तव तातेतिपाठे-तात स्वामिन्नित्यर्थः । वृद्धत्वादत्सेवि सम्बोधनं वा । पुत्रवियोगजः शोकः पुत्रशोकः तेनाकुलामिव स्थिता पुरीमित्यन्वयः॥ ३९ ॥स राममिति । पूर्व सरामं रथं दृष्ट्वा इदानीं रामं विना स्थितं रथं दृष्ट्वा जनः सा पुर्यपि विदीयंत दुःखेन भिद्येत । पुरी| शब्दोऽत्र जनव्यतिरिक्तपश्वादिपरः ॥४०॥ देन्यमिति । आहवे हतवीरं हतं वीरं दृष्ट्वा स्वसैन्पमिव सूतावशेष शून्यं रामरहितं रथं दृष्ट्वा नगरी दैन्यं गच्छेत् ॥ ११॥ दूर इति । प्रजाः अयोध्यावासिन्यः । दूरे निवसन्तमपि त्वां मानसेनाग्रतः स्थितं त्वां चिन्तयन्त्यः भावनाप्रकर्षेण पुरतः स्थितमिव पश्यन्त्यः निराहाराः कृताः, आहारेऽप्यादरं न कुर्वन्तीत्यर्थः॥ ४२ ॥ अवार्थे पूर्वानुभवं प्रमाणयति-दृष्टमिति । त्वत्प्रवासने प्रजानां यादृशं सङ्कुल। रथस्य सुखमेधितुं संवर्धयितुं शक्यमिति सम्बन्धः ॥ ३६-३९ ॥ स राममिति । स रामं तावत्प्रथमं दृष्ट्वा तदा स्थितो यो जनः या पुरी च स जनः सा पुरीच पश्चा द्विना राम रथं हटा विदीर्यतापि । अपिः सम्भावनायाम् ॥ ४०॥ देन्यमिति । हतवीरं हतरविन रथं हष्टा स्वसैन्यमिव स्वसेनेव ॥ ४१ ॥ दूर इति । अग्रतः पुरतः। स्थितं वनप्रयाणोन्मुखं त्वाम् अत एव मानसेन दूरे निवसन्तं चिन्तयन्त्यः प्रजाः निराहाराः कृताः। अद्य त्यक्त्वा वनं गतं त्वां चिन्तयन्त्यः मरिष्यन्ति नूनमि त्यर्थः ॥ ४२ ॥ मत्प्रवासनमात्रेण कयं तेषां मरणशद्वेत्यत आह-दृष्टमिति । प्रजानां यादृशं सकुलं दुःखप्रलापः वृत्तं जातं तवया दृष्टम् ॥ ४३ ॥
।।१७२॥
For Private And Personal Use Only