________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
क्ष्यिसि "नित्यवीप्सयोः” इति द्विवचनम् । आदरातिशयेन सदा द्रक्ष्यसीत्यर्थः ॥२९॥ एवमित्यादि । राजानं मे मातरम् अन्याः देवीः सहिताः कोस ल्यया सह वर्तमानाः कैकेयीं च पुनःपुनरेवमुक्त्वा अथ कौसल्यामारोग्यं पादाभिवन्दनं च बृहीत्यन्वयः । आर्यस्य शास्त्रोदितज्येष्ठानुवर्तनरूपपरम
एवमुक्कातु राजानं मातरं च सुमन्त्र मे । अन्याश्च देवीः सहिताः कैकेयीं च पुनःपुनः ॥३०॥ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् । सीताया मम चार्यस्य वचनालक्ष्मणस्य च ॥३१॥ ब्रूयाश्च हि महाराज मरतं क्षिप्रमानय। आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ ३२ ॥ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च । अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ ३३ ॥ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ ३४ ॥ यथा च तव कैकेयी सुमित्रा च विशेषतः । तथैव देवी कौसल्या मम माता विशेषतः ॥३५॥ तातस्य प्रियकामेन यौवराज्यमवेक्षता । लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥३६॥
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः । तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ ३७॥ धर्मवेदित्वात् लक्ष्मणस्यार्यत्वोक्तिः। कौसल्या प्रत्येव पादाभिवन्दनकथनम् अन्यत्र निषेधात् । आचार्यवदाचार्यदारे वृत्तिः पादसंवाइनवर्जम्" इति निषे धस्य सपत्नीमातृष्वपि तुल्यत्वात् ॥३०॥ ३१॥ ब्रूया इति । नृपमते राज्ञामभिमते । पदे यौवराज्य इत्यर्थः । अभिषिच्य स्थितमितिशेषः । नाभि भविष्यतीत्यत्रेतिकरणं द्रष्टव्यम् । अस्य बूया इत्यनेन सम्बन्धः ॥ ३२ ॥ ३३ ॥ भरतइत्यादिश्लोकेनोक्तमथै विवृणोति-यथेति । सुमित्रोक्तिः शत्रुघ्न पक्षपातात् । अवेक्षता अङ्गीकुर्वता त्वयेतिशेषः । नित्यदा सर्वदा । छान्दसो दाप्रत्ययः । इति भरतश्चापि वक्तव्य इति पूर्वेणान्वयः ॥३४-३७॥ पुनः पुनरागतानस्मान पुनस्त्वं द्रक्ष्यसीति द्वयोः पुनश्शब्दयोस्सम्बन्धः ॥२९॥ एवमिति । सहिताः मम मात्रेति शेषः । कैकीयीं च आरोग्य ब्रहीति सम्बन्ध स्वमातः पादाभिवन्दनमादिशति-कौसल्यामिति । सीतायाः मम च आर्यस्य विदुषो लक्ष्मणस्य च वचनात्पादाभिवन्दनं बया इत्यन्वयः । यद्वा ब्रहीति पूर्वेण सम्बन्धः ॥३०॥३१॥ स्वविश्लेषजदुःखनिवृत्तये सुमन्त्रे स्वातन्त्र्यमारोप्याह महाराजमित्यादि । महाराजं त्वत्पूर्व नृपमते दशरथानुमते भरतमभिषिच्य। अभिषेचयसि चेत् तहीदं दुःखं त्वां नाभिभविष्यतीति सम्बन्धः । यद्वा दशरथं प्रति वक्तव्यमिति सुमन्त्रं प्रत्याह या इति ॥ ३२-३५॥ तातस्येति । तातस्थ प्रियकामेन यौवराज्यमपेक्षता अङ्गीकुर्वता उभयोरिह परयोः सुखमेधितुं शक्यम्, जनानामिति शेषः । यद्वा यौवराज्यमपेक्षता त्वया उभयोलोकयोः तातस्य दश
For Private And Personal Use Only