________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ. ॥१७॥
टी.अ.का. स.
बत इति । रोदनस्याशुचिताहेतुत्वात् स्पृष्टोदकम् आचान्तम्, अतएव शुचिम् ॥ २१-२३॥ गुरवः स्वामिनश्च न नियम्याः अपितु सर्वप्रकारेणा नुवर्तनीया इत्याशयेनाइ-यद्यदिति । विकासा अनादरः तदभावेन, आदरेणेत्यर्थः ॥२४ ॥ एतदिति । एतच्छब्दार्थमाह यदेषामिति । प्रशासतीति
ततस्तु विगते बाष्पे सूतं स्टष्टोदकं शुचिम् । रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ २१॥ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये। यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥२२॥ शोकोपहतचेताश्च वृद्धश्च जगतीपतिः। कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥२३॥ यद्यदाज्ञापयत्किञ्चित् स महात्मा महीपतिः । कैकेय्याः प्रियकामार्थं कार्यं तदविकांक्षया ॥ २४॥ एतदर्थ हि राज्यानि प्रशासति नरेश्वराः । यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २५॥ यद्यथा स महाराजो नालीकमधिगच्छति । न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥२६॥ अदृष्टदुःखं राजानं वृद्धमार्य जितेन्द्रियम् । ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २७ ॥ नैवाह मनुशोचामि लक्ष्मणो न च मैथिली। अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च ॥२८॥ चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः। लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान ॥२९॥ अभ्यस्तत्वाददादेशः । सर्वकृत्येषु कामात क्रोधादा प्रवृत्तेष्वित्यर्थः ॥ २५ ॥ यदिति । अलीकमप्रियम् । “ अलीकं त्वप्रियेऽनृते " इत्यमरः ॥२६॥ अदृष्टदुःखमिति । मम हेतोः मदर्थ । मम प्रतिनिधित्वेनेत्यर्थः ॥२७॥ स्वविश्लेषजनितदुःखेन राजा न निर्वहेदिति भिया तदाश्वासकानि वाक्या न्याह-वाहमिति । लक्ष्मणो न च मैथिलीत्यत्र शोचतीति विपरिणामः कर्तव्यः । वत्स्यामहेत्यत्र आर्षः सन्धिः॥२८॥ चतुर्दशस्विति । पुनःपुन रामपरं वा । दूरगतं दृष्ट्वा निश्चित्येत्यर्थः ॥२०॥ तत इति । स्पृष्टोदकम् आचान्तम् ॥ २१ ॥ २२ ॥ शोकेति। कामभारावसन्नः कामवेगेन पीडितः यस्मात् तस्मात् एतत् वक्ष्यमाणं अवीमीति योजना ॥ २३ ॥ यद्यदिति । अविकाझया अविशङ्कया। कार्यम् अनुष्ठेयम् ॥२४॥२५॥ यद्यथेति । यत्कार्य प्रति यथा अलीकमप्रियम् । नाधिगच्छति दुःखेन न ताम्पति ग्लानि न प्रामोति तत्कार्य तथा कुर्विति सम्बन्धः ॥२६॥ २७ ॥ नेति । वत्स्यामहेति सन्धिरार्षः ॥२८॥ चतुर्दशस्विति । पुनः
॥१७१॥
For Private And Personal Use Only