________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सत्पुरुषः, रिपूणामपि वत्सल इत्यर्थः। सत्यधर्मावेव परायणं परमा गतिर्यस्य सः सत्यधर्मपरायणः । सत्यधर्मकनिरत इत्यर्थः। किश्च धर्मः। श्रिया तत्फलभूतया संपदा सह रामात्साक्षाव्यवधानेन विनिवृत्तः निष्पन्नः, धर्मार्थयोरितरनिरपेक्षतया निर्वाहक इत्यर्थः ॥ २९ ॥ रामनिष्ठगुण समुदायस्यैकत्रासम्भवादेकैकगुणयोगेन चन्द्रादीन दृष्टान्तयन्ति-प्रजेति । प्रजासुखत्वे प्रजानां सुखकरत्वे चन्द्रस्य तुल्यः । क्षमागुणविषये वसुधायाः14 भूमेः तुल्यः। बुद्ध्या बुद्ध्यसाधारणधर्मेण बृहस्पतेस्तुल्यः । वीर्य विषये शचीपतेः साक्षात्तुल्यः। “ साक्षात्प्रत्यक्षतुल्ययोः” इत्यमरः॥ ३०॥
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः । बुद्धया बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ ३० ॥ धर्मज्ञः सत्यसन्धश्च शीलवाननमूयकः । क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥३३॥ मृदुश्च स्थिरचित्तश्च
सदाभव्योऽनसूयकः ॥३२॥ प्रियवादी च भूतानां सत्यवादीच राघवः। बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥३३/ धर्मज्ञ इति । धर्म सामान्यविशेषरूपमशेषं जानातीति धर्मज्ञः । सत्या अमोघा सन्धा प्रतिज्ञा यस्यासौ सत्यसन्धः। “सन्धा प्रतिज्ञा मर्यादा" इत्यमरः।। शीलवान शीलं हि नाम महतो मन्दैः सह नैरन्ध्येण संश्लेषः तद्वान् । अनसूयकः गुणेषु दोषाविष्करणमसूया तद्रहितः। बहुव्रीहौ कप् । शान्तः क्षमावान् । क्षमा अबाधितापराधसहिष्णुत्वम् । शमेरूदित्वात् पक्षे नेट । न केवलं सहिष्णुः अपराधिषु, सान्त्वयिता कुपितान् दुःखितांश्च प्रति सान्त्ववादी । लक्षणः प्रियंवदः । “समौ श्लक्ष्णप्रियंवदौ" इत्यमरः। कृतज्ञः स्वल्पमपि सकृत्कृतमुपकारं बहुतया जाननित्यर्थः । विजितेन्द्रियः विषय चापलरहितः॥३१॥ मृदुरिति । मृदुत्वं समाश्रितजनविश्लेषभीरुत्वम् । चित्तस्थैर्य नाम अतिसङ्कटेप्यङ्गीकृतविषयपरित्यागराहित्यम् । सदा भव्यः) कुशलः आश्रिताधीनो वा ॥ ३२ ॥ प्रियवादी "सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्" इत्युक्तरीत्या प्रियवादित्वेपि सत्यवादीत्यर्थः। धर्मः श्रिया सह राज्यलक्ष्म्या सह रामाद्विनिर्वृत्तः आविर्भूतः ॥२९ ॥ रामभद्रनिष्ठगुणसमुदायस्य जगत्येकत्र वासासम्भवादेकैकगुणयोगेन चन्द्रादीन दृष्टान्तयतिप्रजेति । प्रजासुखत्वे प्रजासुखकरत्वे ॥३०॥ धर्मज्ञ इति । अनसूयकः न विद्यते असूया अन्यविषयिणी यस्य सः, उत्तरत्र न विद्यते असूया स्वविषयिणी अन्यकृता यस्य स तथोक्त इति न पुनरुक्तिः । सत्यसन्धः सत्या सन्धा प्रतिज्ञा यस्य सः। सान्त्वयिता कुपितान दुःखितान् प्रति सान्त्ववचनेन दु:खं प्रशमयिता। श्लक्ष्णः प्रियं वदशीलः॥३१॥ मृदुरिति । मृदुः सुकरोपास्यः, स्थिरचित्तत्वं नामातिसङ्कटेऽप्यङ्गीकृतपरित्यागराहित्यम् ॥३२॥ प्रियवादी चेति भूतानां प्राणिनां प्रियावादी सत्य
SH
For Private And Personal Use Only