________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
दा.रा.भ. तया शुभीभूयं याताः" इत्यभियुक्तोक्तः । अत्र “ स्वाभाविकानवधिकातिशयासङ्घयेयकल्याणगुणगणः ” इति यामुनाचार्यवचनमनुसन्धे टी.अ.का. यम् ॥२६॥ तनि०-शत्रुबाणबाधितो न भवति लोकः किंतु तव पुत्रगुणैर्बद्धः, गुणजितेरस्माभिरेवमुक्तम् न कार्यबुद्धिभिरित्युत्तरमाहुः-त इति । ते अनुभूता रामगुणाः
स०२ महात्मानं एतादृशपुत्रपितृत्वेन महानुभावं कल्याणाः मङ्गलकतानाः बहवः असंख्याताः। ते पुत्रस्येत्याश्रयलक्षण्यम् । गुणाः सन्ति 'सर्व वाक्यं सावधारणम्' इतिन्यायेन गुणा एव सन्ति । नैकोपि दोष इति व्यञ्जितम् ॥२६॥ के ते गुणा इत्याकांक्षायां तान वक्तुं प्रतिजानीते-गुणानिति । हे देव हे राजन् ! गुणवतःप्रशस्तबहु
गुणान गुणवतो देव देवकल्पस्य धीमतः । प्रियानानन्दनान कृत्स्नान प्रवक्ष्यामोऽद्य तान शृणु ॥२७॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः । इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२८॥
रामः सत्पुरुषो लोके सत्यधर्मपरायणः । साक्षाद्रामाद्विनिवृत्तो धर्मश्चापि श्रिया सह ॥ २९ ॥ गुणकस्य देवकल्पस्य देवतुल्यस्य । धीमतः रामस्य । प्रियान् इष्टान् । आनन्दनान् प्रीतिजनकान् । तान् प्रसिद्धान् । कृत्स्नान गुणान् । अद्य प्राप्त Kाकाले शृणु प्रवक्ष्यामः । गुणवतो गुणानित्यनेन गुणानामनारोपितत्वेन स्वाभाविकत्वमुक्तम् । देवकल्पस्येत्यनेन गुणानां सम्भावितत्वम् । धीमता।
इत्यनेन गुणानां मध्ये ज्ञानस्य प्राधान्यमुक्तम्, ब्राह्मणा आगता वसिष्ठोप्यागत इत्यत्र वसिष्ठस्येव । प्रियानित्यनेन .कल्याणत्वम्, आनन्दना
नित्यनेन निरतिशयत्वम्, कृत्स्नानित्यनेनासंख्येयत्वं च विवक्षितम् । एतावत्पर्यन्तं किमर्थ नोक्तमित्यपेक्षायां भवत्प्रनकाल एवास्मदुक्तेरवसर Vइत्ययेत्यनेन सूचयन्ति प्रवक्ष्याम इति । प्रवचनोत्या भगवद्गणोपदेशेऽधिकारितारतम्यं नास्ति । अजानता जानद्भिःश्रोतव्यमित्येवेति सूचितम् ।
शृण्वित्यनेन रामगुणश्रवणे निरतिशयानन्दमनो भविष्यसि । कथञ्चिन्मनः संस्तभ्य श्रोतव्यमित्युक्तम् ॥२७॥ दिव्यैरिति । दिव्यैः अमानुषैः । गुणः शोर्यवीयर्यादिभिः । शकसमः इन्द्रसमः । सत्यपराक्रमः अमोघविक्रमः । इक्ष्वाकुभ्यः इक्ष्वाकुवंश्येभ्यः। सर्वेभ्योतिरिक्तः समधिकः "अतिरिक्तः। समधिकः" इत्यमरः । शौर्यादिभिरिति शेषः। राज्ञो मनःप्रीणनाय सम्बोधयन्ति विशांपत इति। विशां प्रजानां पते ॥२८॥ राम इति । लोके राम एव मित्याहुः-ते तमिति । ते राजानः, कल्याणगुणाः मङ्गलस्वभावाः इतरपुरुषदुर्लभाः बहवो गुणास्सन्तीत्यर्थः ॥२६॥ गुणानिति । प्रियान् शत्रूणामपि प्रीतिजनकान १४॥ आनन्दना अनिष्टनिवारणपूर्वकेष्टप्रापकत्वेन आनन्दजनकान् शौर्यादीन् ॥२७|| दिव्यैरिति। दिव्यैः अमानुषैः। इक्ष्वाकुभ्यः इक्ष्वाकुवंशप्रभवेभ्यः॥२८॥राम इति।
x वाक्यमिदं भगवद्रामानुजमुनिविरचिते गात्रवेपि विशते । स्वाभाविकानवधिकातिशयेशितृत्वम् ' इति च यामुनाचार्थवचनं प्रतिभाति ।
For Private And Personal Use Only