________________
Shri Mahar Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandie
परं पर्यालोच्य राघवं रामं पति राजानं इच्छथेति यत्, अयं मे संशयः संशयहेतुः । विधेयापेक्षया पुल्लिङ्गता । संशयप्रकारमाह किमिदमिति । इदं । राघवाभिषेकप्रार्थनं किम् किंनिमित्तकमिति तत्त्वतो ब्रूत, अब निमित्तं याथातथ्येन कथयतेत्यर्थः ॥२४॥ तनि०-यद्यस्मात कारणात् मे वचनं श्रुत्वैव सक च्वणमात्रेणवेत्यर्थः । रापर्व पति राजानं इच्छथ । हिंसकहस्तापतिताः कदा निस्तरिष्याम इतिवनवता शीघमाकोशः किमर्थमिति भावः । अतः मे अयं बुद्धी परि वर्तमानः संशयो जातः । इयमिच्छा मत्पालनवैगुण्याद्वा तस्य गुणवत्तरत्वाद्देति सन्देहो भवतीति भावः। इदं रामस्य राजाशंसनं किंनिमित्तकमित्यर्थः । तत्त्वतो ब्रूत संशय विच्छेदो यथा स्यात्तथा ब्रूत ॥२४॥ पुनः संशयं विशिनष्टि-कथमिति । मयि धर्मेण पृथिवीमनुशासति भवन्तः ममात्मजम् अतिमुग्धं युवराजं द्रष्टुं कथ
कथं नु मयि धर्मेण पृथिवीमनुशासति । भवन्तो द्रष्टुमिच्छन्ति युवराज ममात्मजम् ॥ २५ ॥
ते तमूचुर्महात्मानं पौरजानपदैः सह । बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ २६ ॥ मिच्छन्ति ? मयि चिरं स्वसुखनिरभिलाषतया राज्यपरिपालनजागरूके तिष्ठति ममापत्यं पतिमभिलपथ,को वा मेऽपराध इतिभावः ॥२५॥ तनिक-उप कान्तकार्य सम्यग्जातं राजलोक एव त्वरत इत्यतिहृष्टः तं हर्ष गोपयन तैरेव वाचयितव्यमिति मनसि कृत्वाह-कथमिति । षष्टिवर्षसहस्राणि आत्मसुखमनपेक्ष्य युष्म क्षणे यत्कर्तव्यं तदेवान्वेषितम् । बलवान दुर्बलं यथा न बाधते तथा रक्षितम् । मया किंचिदुक्के भवानेवेतःपरमनुशाधि क्रमेण रामाभिषेको भविष्यति भवतः प्रियं चेनद्वा कर्तव्यमित्यनुक्त्वा किमेवमुच्यत इति प्रष्टुरभिप्रायः ॥ २५॥ न ते कश्चिदपराधः किन्तु तव पुत्रस्य गुणानामपराध इत्याहुः-त इति । ते राजानः पोरजानपदैः सह पण्डितपामराविशेषेण सर्वे ऐकमत्यं प्राप्येत्यर्थः । महात्मानं महाबुद्धिं तं गुणग्राहिणं दशरथं ऊचुः । हे नृपेतिसम्बोधनेन तारतम्य ज्ञतोक्ता । ते पुत्रस्य बहवः कल्याणा गुणास्सन्ति । तब तु नृपरिपालनमेको गुण इतिभावः । रामप्रशंसया तस्यासूया माभूदिति ते पुत्रस्येत्युक्तम् । तदतिशयस्सापि त्वत्सम्बन्धकृत इतिभावः। गुणा इति बहुवचननैव बहुत्ते सिद्धेपि बहव इत्युक्त्या असत्येयगुणत्वमुक्तम् । पुत्रस्य गुणा इत्यनेन । जन्मसिद्धत्वोक्त्या गुणानां स्वाभाविकत्वमुक्तम् । कल्याणाः अखिलहेयप्रत्यनीकाः। आश्रयसम्बन्धेन शुभीभूतावा “गुणाःसत्यज्ञानप्रभृतय उत त्वद्गत प्याम इतिवद्भवतामाक्रोशः किमर्थमिति तात्पर्यम् ॥ २४ ॥ स्वहर्ष गोपयन तैरेव वाचयितव्यमिति मनसि कृत्वाह-कथमिति । पृथिवीमनुशासति सति-युष्मद्रक्षणं कुर्वति सति । वयं त्वया सम्यगेव परिपालिताः ॥ २५ ॥ त्वयि दोषगन्धो नास्तीति तात्पर्यात्तथापि त्वत्पुत्रकल्याणगुणबाहुल्यादशीकृतमानसरस्माभिरेवमुक्त
For Private And Personal Use Only