________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रभातायामिति । पृथुवक्षा इत्युत्साहातिरेकोक्तिः । महायशा इति धर्मव्यतिक्रमाभावः सूचितः । सौमित्रिमिति “रामं दशरथं विद्धि " इत्यादिनो तार्थानुष्ठायित्वं सूचितम् । शुभलक्षणमित्यनेन स्वभक्तिरुक्ता ॥१॥ भास्करोदयकालइति । भास्करशब्दोऽयं तत्सम्बन्ध्यरुणवाची । गता गतप्राया।
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः। उवाच रामः सौमित्रि लक्ष्मणं शुभलक्षणम् ॥ १॥ भास्करोदयकालोऽयं गता भगवती निशा । असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥२॥ बर्हिणानां च निर्घोषः श्रूयते नदतां वने । तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् ॥ ३॥ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः । गुहमामन्त्र्य सूतं च सोऽतिष्ठद्मातुरग्रतः॥४॥ स तु रामस्य वचनं निशम्य प्रतिगृह्य च। स्थपतिस्तूर्णमाहूय सचिवानिद
मब्रवीत् ॥ ५॥ अस्य वाहनसंयुक्तां कर्णग्राहवती शुभाम् । सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ ६॥ भगवती कामवर्धिनी । “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु" इत्यमरः । सुकृष्णो विहगः भरद्वाजः। कोकिलः कोकिलश्चेत्यर्थः ॥२॥ वने नदतामिति नगरस्थक्रीडामयूरव्यावृत्तगम्भीरध्वनिरुक्ता । शीघ्रगामिति नावं विना दुस्तरत्वोक्तिः। सागरङ्गमामिति महत्त्वोक्तिः॥३॥ वचो विज्ञाय
नदीतरणसाधनं शीघ्रमानेतव्यमित्येवंरूपं वचनतात्पर्य ज्ञात्वा गुहं सूतं चामन्त्र्य युवाभ्यामपि रामवचनतात्पर्य ज्ञातं किमिति सम्बोध्य भ्रातुरग्रतो | कतिष्ठत् ॥ ४॥ स त्विति । प्रतिगृह्य शिरोनतिपूर्वकं तथैव करिष्यामीत्यङ्गीकृत्य ॥५॥ अस्येति । अस्य रामस्य। वाहनसंयुक्तां वाह्यते नीयतेऽनेनेति ।
वाहनमरित्रादि तेन संयुक्ताम् । कर्णग्राहवती कर्णमरित्रं गृह्णातीति कर्णग्राहः कर्णधारः तद्वतीम् । “कर्ण श्रोत्रमरित्रं च" इति निघण्टुः। सुप्रतारां सुष्टु तार ॥ १-३॥ विज्ञायेति । वचो विज्ञाय नदीतरणसाधनं शीघ्रमानेतव्यमित्येवंरूपं र मवचनतात्पर्य ज्ञात्वा । गुहं सूतं चामन्त्र्य युवाभ्यामपि रामवचनतात्पर्य ज्ञातं किमिति सम्बोध्य यथापूर्व भ्रातुरप्रतोऽतिष्ठदिति सम्बन्धः ॥ ४॥५॥ अस्येति । अस्यवाहनसंयुक्ताम् अस्य जलं निरस्य नावं तीरं वाहयति प्रापयतीत्यस्यवाह नम् अरित्रमिति यावत् । तत्संयुक्ताम् । यद्वा अस्य रामस्य वाहनसंयुक्ताम् । वाहते नीयते नौरनेनेति वाहनमरित्रादि, ताक्ताम् । कर्णग्राहवती कर्णधारवतीम् ।
सत्य-भगवती पूज्या, मैनक्षत्रै पछतीत भार: चन्द्रः ततो वा । सुकृष्णः अत्यन्तं नील: बिहगः काकः कोकिलस्त पालितः । प्रातःकाले काकशब्दस्व प्रसिद्धत्वात् । प्रातर्निन्यवान तनाम जपाह । पुरत सम्पायापराधत्वेन वा तदग्रहणम् ॥ २ ॥ अनेककर्मसु कौशलविवक्षया सचिवानिति बहुवचनम्, अतो नावमुपाहरेत्येकवचनं ग्रहामात्यो महानिति च न विरुद्धधते ॥ ५॥
For Private And Personal Use Only