________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
टी.अ.का.
॥१६॥
अश्वानामिति । अश्वानां खादनेन ग्रासेन अर्थी प्रयोजनवान्, अश्वघास एव प्रयोजनमित्यर्थः । अत्र अस्मिन्समये ॥ १५॥ एते हीति । सुविहितः |पोषितैः ॥ ४६॥ अश्वानामिति । स गुहस्तत्रैव तदानीमेव । पुरुषान् सभृत्यान् प्रति । अश्वानां खादनं प्रतिपानं क्षीरादिकञ्च त्वरितं दीयता
अश्वानां खादनेनाहमर्थी नान्येन केनचित् । एतावतात्र भवता भविष्यामि सुपूजितः ॥४५॥ एते हि दयिता राज्ञः पितुर्दशरथस्य मे । एतैः सुविहितैरवैर्भविष्याम्यहमर्चितः ॥४६॥ अश्वानां प्रतिपानं च खादनं चैव सोन्व शात् । गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥४७॥ ततश्वीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् । जलमेवा ददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥४८॥ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः। सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः॥४९॥ गुहोपि सह सूतेन सौमित्रिमनुभाषयन् । अन्वनाग्रत्ततो राममप्रमत्तो धनुर्द्धरः॥५०॥ तथा शयानस्य ततोऽस्य धीमुतो यशस्विनो दाशरथेमहात्मनः । अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय
चिरेण शर्वरी ॥५१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशः सर्गः॥५०॥ मित्यन्वशात् ॥ १७॥ तत इति । उत्तरासङ्गः उत्तरीयम् । अवास्य उपास्य । अनेन वानमाक्षिप्यते । भोज्यमाहारम् ॥१८॥ तस्यति । शय्याकाले पादप्रक्षालनं राज्ञोपचारादा स्वशेषवृत्त्यनुरूपत्वादा। यदा प्रक्षालनं रामकर्तृकम्, तदाचमनस्याप्युपलक्षणम् । प्रक्षाल्पाचम्य शयानस्य शयाने सती त्यर्थः । भावलक्षणे षष्ठी। ततस्तस्मात् शयनप्रदेशात् । अभ्येत्य गुहाभिमुख मेत्य वृक्षमेवोपाश्रितस्तस्थौ ॥४९॥ गुहोऽपीति । सौमित्रिमनुभाषयन राम गुणान् प्रस्तुत्य सौमित्रि वाचयनित्यर्थः। अन्वजाग्रत् जाग्रतं सौमित्रिमन्वजाग्रत्, किमर्थम् ? राममुद्दिश्य रामं संरक्षितुमित्यर्थः। धनुर्द्धर इत्यनेन लक्ष्मणे |प्यतिशङ्का गुहस्य द्योत्यते ॥५०॥५१॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चाशः सर्गः॥५०॥ अश्वानामिति । अत्र भवता पूज्येन ॥ ४५ ॥ समाहितः तृप्तः ॥ ४६ ।। ४७ ॥ चीरोत्तरासङ्गः चीरं वल्कलम् , उत्तरासङ्गः उत्तरीयं यस्य सः॥४८॥४९॥ गुहः सुतेन सह सौमित्रिमनुभाषयन् रामगुणान् प्रस्तुत्य सौमित्रि वाचयन् राममनु राम लक्ष्यीकृत्य अजाग्रत् ॥ ५० ॥ ५१ ॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामा यणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां पञ्चाशः सर्गः॥५०॥ | सत्य-जकमेवेत्यनेन सार्थनिमित्तोपवासोपमिति सूचयति । साक्षाद्गङ्गासानियलाभे जीवपितृकागामपि पुराणादावुपवासस्पोक्तः । यद्वा रामस्य सर्वज्ञत्वेन समरविनश्यपितमानादुपवास इति सूचयति ASHLI ॥ शयानस्य शेतुकामस्येति फलितोर्थः ।। ४९ ॥
॥१६७॥
For Private And Personal Use Only