________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
गम्यम् । इयमस्मत्पुरी ॥३५॥३६॥ तत इति । आद्यशब्देन पेयादिकमुच्यते । पृथग्विधं मांसादिभेदेन बहुविधम् ॥ ३७ ॥ स्वागतमिति । इयं मही| अटवीराज्यम् ॥ ३८॥ भक्ष्यामिति । भक्ष्यं खाद्यं व्यञ्जनादि । भोज्यम् अन्नम् । पेयं पानकादि । लेह्यं रसायनादि । खादनं घासः॥३९॥ गुहमिति ।
ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ॥३६॥ ततोगुणवदन्नाद्यमुपादाय पृथग्विधम् । अय चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ॥३७॥ स्वागतं ते महाबाहो तवेयमखिला मही । वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः॥३८॥ भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् । शयनानि च मुख्यानि वाजिनां खादनं च ते॥३९॥ गुहमेवंब्रुवाणंतु राघवः प्रत्युवाच ह। अचिंताश्चैव हृष्टाश्च भवता सर्वथा वयम् । पद्यामभिंगमाच्चैव स्नेहसन्दर्शनेन च ॥४०॥ भुजाभ्यां साधु पीनाभ्यां पीडयन् वाक्यमब्रवीत् ॥४१॥ दिष्टया त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः। अपि ते कुशलं राष्ट्रे मित्रेषु.च धनेषु च॥४२॥ यत्त्विदं भवता किश्चित् प्रीत्या समुपकल्पितम् । सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥४३॥ कुशचीराजिनधरं फलमूलाशिनंच माम् । विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥४४॥ अर्चितत्वेपि केचिन तन्मात्रेण तुष्यन्ति न तथा वयमित्याह-दृष्टाश्चेति । स्नेहसन्दर्शनेन राज्य प्रशाधीति वाक्यकृतेन प्रदर्शनेन ॥४०॥ भुजाभ्या मिति । साधु पीडयन् सम्यगालिङ्गन पीनाभ्यामित्यनेन सुखहेतुत्वमुच्यते ॥४१॥४२॥ यत्त्विति । अनुजानामि मम सर्व सम्यकृतमित्यनुजानामि । प्रतिग्रहे न वत्तै प्रतिग्रहधर्म नाश्रितवानस्मीतिभावः ॥४३॥ राज्यानाद्यपरिग्रहे हेतुं दर्शयति-कुशचीराजिनधरमिति । कुशं पवित्रमेखलादिरूपम् ।। चीरं वल्कलम् । अजिनं कृष्णाजिनम् । धर्म प्रणिहितं पितृवाक्यपरिपालनादिधर्मे सावधानम् । वनं गोचरः सञ्चारविषयो यस्य तम् ॥४४॥ । स्वेष्टदेवं श्रीराम स्वपुरमागतमालोक्य परमानन्दनिर्भरो गुहः स्वकीयं सर्वस्वं श्रीरामाय निवेदयति स्वागतमिति । प्रशाधि स्वीकुरु ॥ ३८ ॥ भक्ष्पमिति ।
एतत्सर्वमनुगृहाणेति श्रीराम प्रार्थयामासेति शेषः ॥ ३९ ॥ गुहमिति सार्धश्लोकमेकं वाक्यम् । पद्यामाभिगमाच्च स्नेहसन्दर्शनेन च अर्चिता इति मत्युवाचेत्यन्वयः Kon४० ॥ भुजाभ्यामित्यादि सार्धश्लोकमेकं वाक्यम् । हे गुह ! ते राष्ट्रे मित्रेषु धनेषु च कुशलमपि कुशलं किमिति च । बान्धवैः सह अरोगं त्वां दृष्ट्वा देवेन
पश्यामीति च पीनाभ्यां भुजाभ्यां गुहं साधु सम्यक् पीडयन् आश्लिप्यन् वाक्यमब्रवीदितियोजना ॥४१॥ ४२ ॥ यत्त्विति । अनुजानामि प्रतिददामि ॥४३॥ तत्र हेतुमाह-कुशचीरेति । तापसं विद्धीति सम्बन्धः ॥४४॥
For Private And Personal Use Only