SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir दानेति। चैत्ययूपसमावृतान् चैत्यानि देवतायतनानि यूपाः सर्वतोमुखादियागप्रख्यापकाः यूपाकारत्वेन स्थापिताः स्तम्भाः। उद्यानानि पुष्पवाटिका सम्पन्नाः सम्पूर्णाः गोकुलेराकुलं निबिडं यथा भवति तथा सेवितान् । नरेन्द्राणां लक्षणीयान् एकैकशो नगरसदृशत्वेन लक्षयितुं योग्यान् । कोस । उद्यानाम्रवणोपेतान सम्पन्नसलिलाशयान्। तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥९॥ लक्षणीयान् नरेन्द्राणां ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवत्तेत ॥१०॥ मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् । राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः॥ ११॥ तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् । ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥१२॥ आश्रमैरविदूरस्थैः श्रीमद्भिः समलंकृताम् । काले सरोभिर्हष्टाभिः सेविताम्भो हृदां शिवाम् ॥ १३॥ देवदानवगन्धर्वेः किन्नरैरुपशोभिताम् । नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम् ॥१४॥ देवाक्रीडाशताकीर्णी देवोद्यानशतायुताम् । देवार्थमाकाशगमा विख्यातां देवपद्मिनीम् ॥ १५॥ लान् कोसलदेशस्थयामान् ॥ ८-१०॥ मध्येनोति । मध्येन मार्गेण भोग्यस्यापि राज्यस्य त्यागमृषिर्विस्मयते धृतिमतां वर इति ॥११॥ तत्रेत्यादि । तत्र कोसलादक्षिणदेशे त्रिभिः पथिभिर्गच्छतीति त्रिपथगा ताम्, स्वर्गमर्त्यपाताललोकगामिनीमित्यर्थः । शिवतोयाम् अच्छतोयाम् ॥१२॥ आश्रमैरि त्यादि । श्रीमद्भिः धर्मसमृद्धिमद्भिः। काले क्रीडाकाले उचितकाले वा । सेवितानि प्राप्तानि अम्भांसि येषां तादृशा हृदाः यस्यां सा | शिवा क्रीडार्थ सेवनेपि पावनाम् ॥१३॥ नानागन्धर्वपत्नीभिः गन्धर्वाणां नानात्वं देवगन्धर्वमनुष्यगन्धर्वभेदात् सेविताम् । शिवामिति पूर्ववत् । सेवितृभेदेप्यकरूपपाव नत्वकथनान्नानर्थक्यम् ॥ १३ ॥ देवाक्रीडाः देवाईक्रीडापर्वताः । देवोद्यानानि देवार्डोद्यानानि । देवार्थमाकाशगमा देवपूजनार्थमाकाशंप्राप्ताम् । देव । त्यानि देवतायतनानि । यूपाःयागीयपशवन्धनस्तम्भाः॥८॥ गोकुलेराकुलतया निविडतया सेवितान् ॥९॥ लक्षणीयान एकैकशो नगरसहशत्वेन नरेन्द्राणां नरेन्द्रः लक्षितुं योग्यानित्यर्थः । कोसलान कोसलदेशस्थप्रामान् ॥ १० ॥ मध्येनेति । राज्यं मध्येन ययौ, मध्यगत्यवलम्बेन ययावित्यर्थः ॥ ११ ॥ १२ ॥ काले क्रीडाकाले ॥ १३॥ १४ ॥ देवानामाक्रीडाः क्रीडापर्वताः, तेषां शतैराकीर्णा व्याप्ताम, तीर इति शेषः । देवार्थ देवप्रयोजनार्थम् । आकाशगमाम् आकाशं प्राप्ताम्। For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy