________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजर्षीणां वने मृगया रत्यर्थमस्तीति शेषः। काले श्राद्धादिकाले । मनुजैः सदाचारपरैः । वृतां स्वीकृताम् । धन्विनामभिकाङ्क्षितां चललक्ष्यवेधनार्थं धन्वि भिरभिकाङ्क्षिताम् तां मृगयां नात्यर्थमभिकाङ्क्षामि किंचित् काङ्क्षामीत्यर्थः । रतिः क्रीडा ||१६||१७|| स इति । ऐक्ष्वाकः " दाण्डिनायन-" इत्यादिना नात्यर्थमभिकांक्षामि मृगयां सरयूवने । रतिर्ह्येषातुला लोके राजर्षिगणसम्मता ॥ १७ ॥ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा । तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ १८ ॥ इत्यार्षे • श्रीमदयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ विशालान कोसलान् रम्यान यात्वा लक्ष्मणपूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥ आष्टच्छे त्वां पुरश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥ २ ॥ निवृत्तवनवास स्त्वामनृणो जगतीपतेः । पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ ३॥
निपातनात्साधुः । स रामः सूतं प्रति तं तमर्थ राजगुणादिरूपम् । अभिप्रेत्य हृदये कृत्वा । मधुरया गिरा वाक्यमुदीरयन् सन् अध्वानं ययौ । अमु मर्थमुत्तरत्र दशरथं प्रति सूतो व्यक्तीकरिष्यति ॥ १८ ॥ इति श्रीगो० श्रीरामा • पीताम्बरा० अयोध्याकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ ४९ ॥ विशालानिति । कोसलान् यात्वा अन्तपर्यन्तदक्षिण कोसलान यात्वेत्यर्थः ॥ १ ॥ निर्गमनावसरे शिष्टाचारप्राप्तस्य पुरदेवतानमस्कारस्य कार्यसङ्क टेनाकृतत्वादिदानीमयोध्या राज्य सीमान्ते स्थित्वा आरब्धस्य चतुर्दशवर्षाविधिकव्रतस्य निर्विघ्नपरिसमाप्त्यर्थे पुरदेवतानमस्कारपूर्वकमभ्यनुज्ञां प्रार्थयते - आपृच्छ इत्यादिना । यानीति तान्यप्यापृच्छ इत्यर्थसिद्धम् ॥ २ ॥ ३ ॥
स्वीकृताम् । धन्विनामभिकाङ्क्षितां लक्ष्यवेधनार्थ धन्विभिरभिकाङ्क्षितामित्यर्थः । तां नात्यर्थमभिकाङ्क्षामि किञ्चित्काङ्गामीत्यर्थः । यद्वा मृगयायाः स्त्रीद्यूतादिसप्त व्यस नान्तःपातित्वेन निषिद्धत्वात्कथं मृगयां पर्यटसीत्यत आह राजर्षीणामिति । राजर्षीणामस्मिलोके रत्यर्थं या मृगया अस्ति । हि प्रसिद्धौ । तां पर्यटिष्यामीति पूर्वेण सम्बन्धः । कीदृशीम् ? काले वृताम् । अन्यत्समानम् । तथापि सदा मृगयापर्यंटने राज्यपालन रूपस्वधर्मनाशः स्यादत आह-नात्यर्थमिति । अत्यर्थे सदा नाभिका ङ्गामि यतः एषा काचित्कमृगया, राजर्षिगणसम्मता रतिः क्रीडा ॥ १६ ॥ १७ ॥ स इति । तं तमर्थ पूर्वोक्तार्थम् अभिप्रेत्य विषयीकृत्य वाक्यमुदीरयन् तमध्वानं मार्गम् ययाविति सम्बन्धः ॥ १८ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां एकोनपञ्चाशः सर्गः ॥ ४९ ॥ | विशालानिति । यात्वा गत्वा । स्वदेशान्तमिति शेषः ॥ १॥ आरब्धस्य व्रतस्य निर्विघ्नेन समात्यर्थं निर्गमनसमये शिष्टाचारप्राप्तपुरदेवतानमस्कारस्य कार्यसङ्कटना कृतत्वात् स्वदेशान्ते स्थित्वा पुरीमनुज्ञां याचते आपृच्छ इत्यादि द्वाभ्याम् । त्वां देवतानि च आपृच्छे प्रार्थये ॥ २ ॥ प्रार्थनाप्रकारमेवाह-निवृत्तेति ॥ ३ ॥
For Private And Personal Use Only