SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयेति । गच्छतः गच्छति सति । व्यपायात निरगात् । विषयान्तम् उत्तरकोसलदक्षिणावधिम् ॥२॥ ग्रामानिति । विकृष्टसीमान्तान् विशेषेण कृष्ट । सीमान्तान् , बीजावापाथै सजीकृतक्षेत्रानित्यर्थः । शनैरिख ययौ उत्तमाश्वानां गतिचातुर्यात् पुष्पितवनरामणीयकदर्शनपारखश्याच्चातिशीघ्रमपि| तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा । उपास्य स शिवां सन्ध्या विषयान्तं व्यगाहत ॥२॥ ग्रामान विकृष्ट सीमान्वान पुष्पितानि वनानि च । पश्यन्नतिययौ शीघ्रं शनैरिवहयोत्तमैः। शृण्वन् वाचो मनुष्याणां ग्रामसंवास वासिनाम् ॥ ३॥ राजानं धिग् दशरथं कामस्य वशमास्थितम् । हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ॥४॥ तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्त्तते ॥५॥ या पुत्रमीदृशं राज्ञःप्रवासयतिधार्मिकम् । वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥६॥ कथं नाम महाभागा सीता जनकनन्दिनी।सदासुखेष्वभिरता दुःखान्यनुभविष्यति ॥७॥ अहो दशरथो राजा निःस्रहः स्वसुतं प्रियम् । प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ ८॥ एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् । शृण्वन्नतिययौ वीरः कोसलान कोसलेश्वरः ॥ ९॥ Mगमनं शनैरिव जानन् ययावित्यर्थः । ग्रामसंवासवासिनां ग्रामाः महाग्रामाः संवासा अल्पग्रामाः तेषु वासिनाम् । शृण्वन्नतिययाविति पूर्वेण| सम्बन्धः ॥३॥ वाच एव प्रपञ्चयति-राजानमित्यादि । पापा पापस्वभावा । पापानुबन्धिनी नैरन्तर्येण पापकारिणीत्यर्थः । तीक्ष्णा कुरा । वनवासे | तथैवेति । गच्छतः सतः, व्यपायात निरगात् । विषयान्तं कोसलदेशान्तम् ॥ २ ॥ प्रामानिति । विकृष्टसीमान्तान विशेषेण कुष्टाः सीमान्ताः येषु । बीजावापार्थ आसीमान्तं सजीकृतक्षेत्रानित्यर्थः । पश्यन् शनैरिव शीघ्रम् अति अतिक्रम्य ययौ । उत्तमाश्वानां गतिचातुर्यात्पुष्पितवनरमणीयदेशदर्शनपारवश्याच्च अतिशीघ्र मपि गमनं शनैरिव प्रत्यभादित्यर्थः । प्रामसंवासवासिना प्रामाः महापामाः, संवासाः स्वल्पग्रामाः तेषु निवासिनो मनुष्याणां वाचः शृण्वन् अतिययाविति पूर्वेण सम्बन्धः शृण्वन्वाचो मनुष्याणामित्युक्तम् ता एवाह-राजानं धिगित्यादिसार्धेः पञ्चभिः। आस्थितं प्राप्तम्। पापानुवन्धिनी पापसम्बन्धिनी। तीक्ष्णा क्रूरा । सम्भिन्न मर्यादा खण्डितमर्यादा । ईदृशं कल्याणगुणेकतानम् । सानुक्रोशं सदयम् ॥ ४-७ ॥ अहो इति । प्रजानां पुत्राणां मध्ये प्रियम् । अनघं निर्दुष्टम् । यद्वा प्रजानां प्राणिनां प्रियं स्वसुतं रामं परित्यकुमिच्छतीति वा सम्बन्धः ॥८॥ एता इति । एताः पूर्वोक्ता वाचः शृण्वन् कोसलान् कोसलदेशानतिययो ॥९॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy