________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
इत्यमरः ॥१०॥ काननमिति । नैनं शक्ष्यन्त्यनर्चितुम् अर्चितुं शक्ष्यन्त्येवेत्यर्थः ॥ ११॥ विचित्रेति । विचित्रकुसुमापीडाः विचित्रपुष्पशेखराः । मचरीत्यत्र छान्दसो ह्रस्वः । दर्शयिष्यन्ति, आत्मानमितिशेषः । नगाः वृक्षाः ॥ १२ ॥ अकाल इति । दर्शयिष्यन्ति वृक्षलतादिद्वारेतिभावः । अनु
काननं वापि शैलं वा यं रामोऽभिगमिष्यति । प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥११॥विचित्रकुसुमा-. पीडा बहुमञ्जरिधारिणः। राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः॥ १२॥ अकाले चापि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्त्यनुक्रोशादिरयो राममागतम् ॥ १३॥ प्रस्त्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् । पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥ १४॥ यत्र रामो भयं नात्र नास्ति तत्र पराभवः । स हि शूरो महाबाहुः पुत्रो दशरथस्य च ॥ १५॥ पुराभवति नो दूरादनुगच्छाम राघवम् ॥ १६॥ पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः। स हि नाथो जनस्यास्य स गतिः स परायणम्
॥ १७ ॥ वयं परिचरिष्यामः सीतां यूर्य तु राघवम् । इति पौरस्त्रियो भर्तन दुःखातास्तत्तदब्रुवन् ॥ १८॥ कोशात आदरादित्यर्थः ॥१३॥१४॥ यत्रेति । यत्र देशे रामो वर्तते अत्र भयं नास्ति । तत्र पराभवोपि नास्ति ॥ १५ ॥ पुरेति । दूरात् पुराभवति भविष्यति । ततः पूर्वमेवानुगच्छाम इत्यर्थः । “यावत्पुरानिपातयोर्लट्" इतिलट् ॥ १६ ॥ पादच्छायेति पादसेवा लक्ष्यते। सुखा सुखसाधनभूता। भषणं येषां ते । बह्वीः मञ्जरी पुष्पस्तवकान धर्व शीलमस्त्येषामिति । छान्दसो द्वस्वः । नगाः पक्षाः । राघवं दर्शयिष्यन्ति । अयं भावः-नगाः राम परमात्मानं मत्वा स्वनिष्ठभ्रमरझङ्काररूपमन्त्रोच्चारणपूर्वकं स्वशाखाकरोद्धृतमञ्जरीरूपपुष्पाञ्जलिभिः राघवमर्चिष्यन्तीति ॥ १२ ॥ अकाल इति । गिरयो दर्शयिष्यन्ति, स्वनिष्ठवृक्षद्वारेति शेषः ॥ १३ ॥ पादपा इति । रमयिष्यन्तीति । स्वमूलाकीर्यमाणपल्लवकुसुमरचितशय्यासु सीतासमेतं रामं रमयिष्यन्तीत्यर्थः ॥ १४॥ यत्रेति। रामः वसतीति शेषः । तत्र हेतुः स हि शूर इति ॥ १५ ॥ पुरेति । राघवो नोऽस्माकम् । अदूरात पुराभवति आसन्नो भविष्यतीत्यर्थः । " यावत्पुरा-" इत्यादिना भविष्यदर्थे लट् । अतो राघवमनुगच्छामेति प्रार्थनायां लोट् ॥ १६॥ यं राममनुगच्छेम महात्मनस्तादृशस्य, पादच्छाया छायेत्यनुग्रहहेतुभूता सेवा लक्ष्यते । श्रीरामचन्द्रपादसेवेव नः सुखा परपसखसाधनभूता । सः रामः गतिः शरणं परायणं सर्वप्रकारेणाधारभूतः॥ १७ ॥ वयमिति । त्रिय इत्यर्थः । यूयं पुरुषा इत्यर्थः।
For Private And Personal Use Only