________________
Shul Maa Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.अ.
चा.रा.भू. ॥१६॥
श न प्रापुः । न चामोदन अपूर्ववस्तुलाभेपि मोदं न प्रापुः । प्रसारयन् प्रासारयन्, पण्यानीतिशेषः । पुण्यानि पुण्यफलभूतपुत्रकलबादीनि । नापचन्निति गृहमेधिनः गृहस्थाः । तेषां पचिक्रियासम्बन्धस्त्वर्धशरीरभूतपत्रीद्वारा ॥४॥ नष्टमिति । नटं चिरकालनष्टं स्वादिकम् ।।
नष्टं दृष्ट्वा नाभ्यनन्दन विपुलं वा धनागमम् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥५॥ गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम् । व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्ररिव द्विपान् ॥ ६॥ किं नु तेषां गृहैः कार्य किं दारैः किं धनेन वा । पुत्रैर्वा किं सुखैापि ये न पश्यन्ति राघवम् ॥७॥ एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया । योऽनु गच्छति काकुत्स्थं रामं परिचरन् वने ॥८॥ आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च । येषु नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥९॥ शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः । आपगाश्च महानूपाः
सानुमन्तश्च पर्वताः ॥१०॥ धनागमं निघ्यादिलाभम् ॥५॥ गृहेगृहइति । रुदन्त्यः सर्वाः स्त्रियः । भतार खस्वभारम् । व्यगर्हयन्त किमर्थ भवद्भिरागतमित्येवं निन्दन्ति । स्म । तात्रैः अडशैः॥६॥ गहों विशदयति-किं वित्यादिश्वोकेन । इति व्यगर्हयन्तेत्यन्वयः ॥ ७॥ एक इति । सीतया सह राम सीतासहितं राम मित्यर्थः॥८॥९॥ शोभयिष्यन्तीति । रम्यकाननाः तत्रतत्र रम्यवृक्षराजियुक्ताः।महानूपाः रम्यकच्छप्रदेशाः । “जलपायमनूपं स्यात्पुंसि कच्छः" नष्ट चिरकालनष्टं धनादिकम् । धनागमं धनलाभम्।।५॥६॥ये रामं न पश्यन्ति तेषां गृहादिभिः किमिति सम्बन्धः । अयं भावः-संसारसागरान्निरवधिककरुणया सकल जगदुद्धरणाय नररूपेणावतीर्य स्वदेशे स्वपुरे चावस्थितं भगवन्तं श्रीरामं परमादरेणापश्यन्तो ये पुत्रदारादिषु रमन्ते ते पापिष्ठाः पुनः पुनस्संसरन्तीति ॥णावने राम परिचरन योऽनुगच्छति स सत्पुरुषः भाग्यपुरुषः । सा सीतापि भाग्यवतीत्यर्थः ॥८॥ आस्तो तावत्सीतालक्ष्मणयोर्भाग्यानुवर्णनमः कस्तद्वर्णयितुं शक्ता-अचेतना अप्यापगादयः सुभाग्या इत्याहुः-आपगा इति॥९॥शोभयिष्यन्तीतिरम्पकाननाः चारुवृक्षसङ्काः अनूपाः जलप्रायतीरप्रदेशः१०॥११॥विचित्रकुखुमैः आपीडः शिरो
सत्य-गृहमागत, रामं विहायेति शेषः ॥ ६ ॥ आपगाः नद्यः । कौश्यः १ पग्रिन्यः सवित्यः । “पप्रै स्थापनो " इति विधः ॥९॥
॥१६॥
For Private And Personal Use Only