________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
वा.रा.भ.
स०१७
भिमुखगमनम् । हिः प्रसिद्धौ ॥७॥ सन्तीति । प्रविशामोथेति अथवेत्यर्थः॥८॥ किं वक्ष्याम इति । किमपि वक्तुं शक्यमित्यर्थः। तदेव विवृणोति महाबाहुरित्यादिना । नीतः वनमिति शेषः॥९-१२॥ तत इति। मार्गानुसारेण किंचित् किंचिहूरम् । मार्गनाशात् रथमार्गादर्शनात्। तच्च वीरुनृणपटल
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च । तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम् ॥ ८॥ किं वक्ष्यामो महाबाहुरनमूयः प्रियंवदः । नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥ ९॥ सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना । भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥ १०॥ निर्यातस्तेन वीरेण सह नित्यं जितात्मना। विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ ११॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः । विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः ॥ १२ ॥ ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुनः। मार्गनाशाद् विषादेन महता समभिप्लुलाः॥ १३॥ रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः। किमिदं किं करिष्यामो दैवेनो पहता इति ॥१४॥ ततो यथागतेनैव मार्गेण क्लान्तचेतसः। अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ १५॥
आलोक्य नगरी तां च क्षयव्याकुलमानसाः । अवर्तयन्त तेऽश्रूणि नयनैश्शोकपीडितैः॥१६॥ पिहितप्रदेशे स्थचारणादितिज्ञेयम् । समभिप्लुताः व्याप्ता इत्यर्थः॥१३॥ रथस्येति । देवेनोपड़ता इति प्रलपन्त इति शेषः॥१४॥१५॥ आलोक्येत्यादि । शेन मरणम् । महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनम् ॥ ७॥८॥ किमिति । नीतः प्रापितः । वनमिति शेषः । अस्यायमर्थः-रामवृत्तान्तं पृच्छन्तं जनं प्रति अस्माभिः राघबो बनं नीत इति वक्तुं कथं क्षमम् ? अन्यद्वा किं वक्ष्याम इति ॥९-१२ ॥ तत इति । मार्गानुसारेण रथमार्गानुसारेण । किचित्क्षणं किञ्चित व कालम् । मार्गनाशात् रथमार्गादर्शनात् । पुनः महता विषादेन समभिप्लुताः ॥ १३ ॥ रथस्येति । मार्गनाशेन हेतुना देवेनोपहता इति, प्रलपन्त इति शेषः। किमिदमितः परं किं करिष्याम इति न्यवर्तन्तेत्यन्वयः ॥ १४ ॥ १५ ॥ आलोक्येति । क्षयच्याकुलमानसाः क्षयं गृहं प्रति व्याकुलानि व्यथितानि गन्तव्यं न वेत्येवं
विषम-व्ययितसजनाम्-व्यथिताः सजनाः यस्यां ताम् । सत्पदेन कैकेय्या व्यावृत्तिः ॥ १५॥ सत्यती०-क्षयव्याकुलमानस्राः क्षये गृहे व्याकुलमानसाः । क्षयो व्याकुलो यस्मिन् रामे तस्मिन् मनो येषा पाते इति वा ॥१९॥
॥१५९॥
For Private And Personal Use Only