SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir I . निमित्तस्वीकारार्थमुदङ्मुखं चकारेत्यर्थः। ततः निमित्तस्वीकारानन्तरम्। रथमास्थाय वनं ययावितिसम्बन्धः । प्रयाणे दक्षिणपादोद्धावत् उदङ्मुख |गमनं मङ्गलायेतिभावः ॥ ३४ ॥ इति श्रीगोविन्दराज• श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पदचत्वारिंशः सर्गः ॥ ४६॥ प्रभातायां तु शर्वर्या पौरास्ते राघवं विना । शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ १॥ शोकजाश्वपरिधना वीक्ष माणास्ततस्ततः। आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥२॥ ते विषादातवदना रहितास्तेन धीमता। कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥३॥ धिगस्तु खल निद्रां तां ययापहृतचेतसः। नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ ४॥ कथं नाम महाबाहुः स तथा वितथक्रियः । भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥५॥ यो नः सदा पालयति पिता पुत्रानिवौरसान् । कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥६॥ इहैव निधनं यामो महाप्रस्थानमेव वा । रामेण रहितानां हि किमर्थं जीवितं हि नः॥ ७ ॥ अथ पौरवृत्तान्तं दर्शयति-प्रभातायामित्यादि । शोकोपड़तनिश्चेष्टाः शोकोपहतत्वान्निश्चेष्टाः । हतचेतसः मूढाः ॥ १ ॥ शोकजति । शोकजा । श्रुभिः परियूनाः परिश्चान्ताः । आलोकमपि रामस्य रामसम्बन्ध्यालोकमपि । आलोक्यत इत्यालोकः तम् । आलोकसाधनं स्थरेवादिकमपी अत्यर्थः॥२॥ त इति । विषादातवदनाः दुःखेन म्लानमुखाः। कृपणाः दीनवेषाः । करुणा वाचः दीनवासि । वदन्ति स्म, अन्योन्यमितिशेषः॥३॥ ॥४॥ कयामिति । अवितथकियः अमोषानुवृत्तिः ॥५॥६॥ इति । इहैव निधनं प्रायोपवेशनेन मरणम् । महाप्रस्थानं मरणदीक्षापूर्वकमुत्तरा।। सोकः । सः सुमन्त्रः । प्रयाणमाङ्गल्पनिमित्तदर्शनात् भयाणानुकूलमङ्गलसूचकनिमित्तदर्शनातोः। तं रथमुदङ्मुखं चकार । निमित्तस्वीकारार्थमुदङ्मुखं चकारे त्यर्थः। ततः निमित्तस्वीकारानन्तरम् । ससारथिः सारथिसहितः दाशरथिः रयं समास्थाय दक्षिणाभिमुखतया वनं ययावित्यन्वयः ॥ ३४ ॥ इति श्रीमहेश्वर तीर्थविरविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥ ४६॥ प्रभातायामिति । शोकेनोपहताः अत एव निश्चेष्टाश्च तथा ॥१॥ शोकेति । शोकजाश्रुभिः परियूनाः किनाः। रामस्यालोकमपि रामसम्बन्ध्यालोकसाधनं स्थरेवादिकमपि ॥ २ ॥ ३॥ विषयाविष्टचित्तानां भग वतः श्रीरामस्प दर्शनं दुरापास्तमिति द्योतयन्त इवाहुः-धिगस्तु खल्विति ॥ ४ ॥ कथामिति । अवितथक्रियः अमोघक्रियः॥५॥६॥ इहैवेति । निधनं प्रायोपवे । For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy