SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ १५८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी.अ.कां. अभयं तत्सम्बन्धिभयरहितमित्यर्थः ॥ २९ ॥ मोहनार्थमिति । मोहनं वञ्चनम् । ननु सदयस्य रामस्य स्वविरहासहिष्णूनां स्वस्मिन्निरतिशयप्रेम भाजां वञ्चनमनुचितम् । उच्यते-नेदं वञ्चनम् । व्रणचिकित्सान्यायेन नागरिकाणामुन्मस्तकानन्देन सत्ता न भवेदिति सुसात्म्यानुभव प्रदानार्थे वनवास ७ स० ४६ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः । उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे ॥ ३० ॥ मुहूर्त त्वरितं गत्वा निवर्तय रथं पुनः । यथा न विद्युः पौरा माँ तथा कुरु समाहितः ॥ ३१ ॥ रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः । प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ ३२ ॥ तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्द्धनौ । प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम् ॥ ३३ ॥ ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ । उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥ व्याजेन विश्लेषस्य सङ्कल्पिततया हितव्यापारत्वेन वञ्चनत्वासम्भवात् । यदि रामस्य तथा सङ्कल्पो न भवेत्तर्हि कथं निश्शेषसर्वजननिद्राकरणम्, सुमन्त्रलक्ष्मणवत्तेष्वेकस्यापि निर्निद्रत्वापत्तेः । मोहनमेवाह उदङ्मुख इत्यादि । पौराणां मोहनार्थमुदङ्मुखः प्रयाहि अयोध्यां प्रति रामो निवृत्त इति पौराणां भ्रान्तिमुत्पादयितुमुदङ्मुखो याहीत्यर्थः । स्वस्य रथेनोदङ्मुखं गत्वा मार्गान्तरेण वनगमनस्य कर्तुं शक्यत्वेपि अयोध्याभिमुखगमने व्रतभङ्गः स्यादिति धिया सुमन्त्रमभिमुखो याहीत्युक्तवान् । तथा कुर्विति पौराणां मोहनार्थ सूतमब्रवीदितिसम्बन्धः ॥ ३० ॥ ३१ ॥ रामस्येति प्रत्यागम्येति मार्गान्तरेण प्रत्यागम्येत्यर्थः ॥ ३२ ॥ ताविति । सम्प्रयुक्तं सम्यगानीतं रथं समास्थितो, अभूतामिति शेषः । येन पथा तपोवनं प्राप्यते तेन प्रचोदयामास ॥ ३३ ॥ तत इति । सः सुमन्त्रः । प्रयाणमाङ्गल्यनिमित्तदर्शनात् प्रयाणानुकूलमङ्गलसूचक निमित्त दर्शनाद्धेतो रथमुदङ्मुखं चकार पद्भ्यामेव महामार्ग प्रपद्येत्यर्थः । भयदर्शिनां भयशङ्किनाम् ॥ २९ ॥ मोहनार्थमिति । पौराणां मोहनार्थे त्वमेव रथमास्थाय न तु वयम् । उदङ्मुखः प्रयाहि अयोध्यां प्रति रामभद्रो निवृत्त इति पौराणां भ्रान्तिमुत्पादयितुमुदङ्मुखो याहीत्यर्थः । स्वस्याप्युदङ्मुखगमने व्रतभङ्गः स्यादितिधिया । सुमन्त्र ! त्वमेक एव | रथमास्थाय किविदुरं गत्वा पुनरागच्छेत्युक्तवान् ॥ ३० ॥ ३१ ॥ रामस्येति । प्रत्यागम्य मार्गान्तरेण प्रत्यागम्य ॥ ३२ ॥ ताविति । सम्प्रयुक्तं सम्यगानीतं रथं समास्थितौ समारुतौ अभृतामिति शेषः । येन पथा तपोवनं गम्यते तेन पथा स सुमन्त्रः तुरङ्गमान् चोदयामासेत्यन्वयः ॥ ३३ ॥ तत इति । पूर्वोक्तनिगमन For Private And Personal Use Only ॥ १५८॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy