________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
त्रिवर्त्तने यथा येन प्रकारेण नियमं कुर्वन्ति तेन प्रकारेण प्राणानपि असिष्यन्ति त्यक्ष्यन्ति । निश्चयं तु निवर्तननिश्चयं तु न त्यक्ष्यन्तीति सम्बन्धः ॥२०॥ यावदिति । यावदेव यावत्येव काले । तावदेव तावत्येवकाले । लघु क्षिप्रम् । रथमारुह्य गच्छाम । “लघुक्षिप्रमरं द्रुतम्" इत्यमरः॥२०॥ अत इति ।
यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य गच्छाम पन्थानमकुतोभयम् ॥२१॥ अतो भूयोऽपि नेदानी मिक्ष्वाकुपुरवासिनः। स्वपेयुरमुरक्ता मां वृक्षमूलानि संश्रिताः ॥ २२ ॥ पौरा ह्यात्मकृताहुःखाद्विप्रमोक्ष्या नृपा त्मजैः । न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥२३॥ अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् । रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥२४॥ अथ रामोऽब्रवीच्छ्रीमान सुमन्त्रं युज्यतां रथः । गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ २५॥ मूतस्ततः संत्वरितः स्यन्दनं तैहयोत्तमैः । योजयित्वाथ रामाय प्राञ्जलिः प्रत्य वेदयत् ॥ २६ ॥ अयं युक्तो महाबाहो रथस्ते रथिनां वर । तमारोह सुभद्रं ते ससीतः सहलक्ष्मणः ॥ २७ ॥ तं स्यन्दनमधिष्टाय राघवः सपरिच्छदः । शीघ्रगामाकुलावर्ती तमसामतरनदीम् ॥ २८ ॥ स संतीर्य्य महाबाहुः
श्रीमान् शिवमकण्टकम् । प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २९॥ . इक्ष्वाकुपुरवासिनः मामनुरक्ताः इदानीमिव भूयः पुनर्वृक्षमूलानि संश्रिताःन स्वपेयुः अतो रथमारुह्य गच्छामेति पूर्वेण सम्बन्धः ॥ २२ ॥ पौरा इति । आत्मकृतात् स्वकृतात् । आत्मना स्वेन ॥२३-२६ ॥ अयमिति । युक्तः सजः ॥२७॥ बमिति । सपरिच्छदः धनुःकवचादिसहितः । आकु लावर्ताम् आवर्ताकुलाम् ॥२८॥ स संतीति । महामार्ग प्रापद्यत जलस्थितरथादवतीर्य पयामेव महामार्ग प्रापदित्यर्थः । भयदर्शिनां श्वापदादीनाम् ।
स्म, अत एव एते प्राणान्या नशिष्यन्ति त्यक्ष्यन्ति, निश्चयमस्सन्निवर्तनरूपनिश्चयं न त्यक्ष्यन्तीति सम्बन्धः ॥ २० ॥ पावदिति । सुप्ता एते । यावत् यावत्पर्य Nन्तम् । नोत्थिता भवेयुरिति शेषः । तावद तावत्पूर्वमेव । लघु क्षिप्रम् । रथमारुह्य गच्छामेत्यर्थः ॥ २१ ॥ अत इति । इक्ष्वाकुपुरवासिनो मामनुरक्ताःइदानीमिव भूयोपि पुनरपि, वृक्षमूलानि संश्रिताःन स्वपेयुः, अतो गच्छामेति पूर्वेण सम्बन्धः ॥ २२॥ पोरा इति । आत्मकृतात् आत्मनिमित्तात् स्वैः कृतादित्यर्थः । दुःखात आत्मना आत्महेतुना, दुःखेनन योज्याः पौरा इति सम्बन्धः ॥२३॥२४॥ अथेति । अतस्तस्माद्रथादरण्यं गच्छामि। शीघ्रं गच्छ, रथसंयोजनायेति शेष ॥२५॥ |॥ २६॥ अयमिति । युक्तः सज्जः ॥ २७ ॥ तमिति । परिच्छदः धनु कवचादिलक्षणः ॥२८॥ स सन्तीति । सन्तीय परपारसमीपजलस्थितरथादवतीयत्ययः।
For Private And Personal Use Only