________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
तच्छब्दैः रुदन्तीव । निष्प्रभत्वेन रोदनोत्प्रेक्षा ॥ ३॥ वनरोदनोत्प्रेक्षया उद्बुद्धसंस्कारो नगरवृत्तान्तं स्मरति-अद्येति । स्त्रीपुंसेति “अचतुरवि चतुरसुचतुरस्त्रीपुंस-" इत्यादिना निपातनादकारान्तत्वम् ।।४॥ शोचनहेतुमाह-अनुरक्ता इति । गुणैर्हेतुभिः राजानं प्रत्यनुरक्ता हि राजानमित्युपादान
अद्यायोध्या तु नगरी राजधानी पितुर्मम । सस्त्रीपुंसागतानस्मान् शोचिष्यति न संशयः ॥४॥ अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः । त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ ५॥ पितरं चानुशोचामि मातरं च यशस्विनीम् । अपि वाऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ ६॥ भरतः खलु धर्मात्मा पितरं मातरं च मे। धर्मार्थकामसहितवाक्यैराश्वासयिष्यति ॥७॥ भरतस्यानृशंसत्वं विचिन्त्याहं पुनःपुनः । नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥८॥ त्वया कार्य नरव्याघ्र मामनुव्रजता कृतम् । अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥९॥ अद्भिरेव तु सौमित्र वत्स्याम्यद्य निशामिमाम् । एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥१०॥
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः । अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ ११ ॥ मौद्धत्यपरिहाराय ॥५॥ पितरमिति । रुदन्ताविति सन्ततरोदनवशेनान्धौ स्यातामित्यर्थः ॥६॥ एवमपि काचित्प्रत्याशास्तीत्याह-भरत इति V॥७॥८॥ त्वया चोदितमेव कृतमित्याइ-त्वयति । कार्यम् अवश्यकर्त्तव्यम् । तत्र हेतुः अन्वेष्टव्येति ॥ ९॥ अद्भिरिति । अद्भिरेव वत्स्यामि अप
एवाहारीकृत्य वत्स्यामि । वनवासोपक्रमदिवसत्वादस्य पुण्यक्षेत्रत्वाच्चोपवासः। एतद्धि रोचते नान्यत्, अनुरक्तजनदुःखस्मरणादितिभावः ॥१०॥११॥ चारण्यानि वर्तन्ते तानि पश्य ॥ ३॥ अद्येति । सखीपुंसा स्त्रीपुरुषसाहिता । 'अचतुर-' इत्यादिना अकारान्तता ॥ ४ ॥ कुतः अनुरक्ता इति । बहुभिर्गुणे तभिः अनुरक्ताः ॥ ५ ॥ पितरमिति । अभीक्ष्णशः मुहुर्मुहुः रुदन्ती तो पितरो रोदनवशादधौ भवेतां वापि किम् इति पितरं मातरं चानुशोचामीत्य न्वयः॥६॥ अथापि तदनुशोचने न काचिचिन्तेत्याह-भरत इति ॥७॥ भरतस्येति । अनुशंसत्वम् अक्रोर्यम् ॥ ८॥ अथ लक्ष्मणानुगमनेन सन्तुष्ट आहत्वयेति । मामनुव्रजता त्वया, कार्य कतेव्यमेव कृतम् । हि यस्मात् । वेदह्या रक्षणार्थे सहायता अन्वेष्टज्या सम्पादनीया ॥९॥ अद्भिरिति । अत्र तमसातीर, अद्भिरेव अप एव आहारीकृत्य वत्स्यामीत्यर्थः । वनवासोपक्रमदिवसत्वात्तमसातीरस्य पुण्यक्षेत्रत्वाञ्चोपवास: कार्य इति भावः (बत्स्याम्पत्रेति पाठः) ॥१०॥ ११ ॥ | स-मदिरेवेति । अनेन स्वपितुरल्पजीवित्वाचदुदेशेन तीपिवासः कृत इति मन्यते ॥१०॥
For Private And Personal Use Only