________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बहूनामिति । ये द्विजा इहागतास्तेषां ये यज्ञाः वितताः विस्तृताः, सम्भृतसम्भारा इतियावत् । तेषां यज्ञानां समातिस्तव निवर्त्तने आयत्ता, त्वनिवर्तनाधी नेत्यर्थः । एवं न कृतश्चेत्सर्वे यज्ञास्त्वयैव विनिताः स्युरितिभावः ॥२८॥ न केवलं वयमेव, तिर्यवस्थावराण्यपि त्वन्निवृत्तिमपेक्षन्त इत्याह-भक्तिमन्तीति।
बहूनां वितता यज्ञा द्विजाना य इहागताः। तेषां समाप्तिरायत्ता तव वत्स निवर्त्तने ॥२८॥ भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च । याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ २९ ॥ अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः । उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥३०॥ निश्चेष्टाहारसञ्चारा वृक्षकस्थानविष्टिनाः। पक्षिणोऽपि प्रयाचन्ते सर्व
भूतानुकम्पिनम् ॥३॥ एवं विक्रोशतां तेषां द्विजातीनां निवर्तने । ददृशे तमसा तत्र वारयन्तीव राघवम् ॥३२॥ भक्तिं स्नेहम् । दर्शय सफलयेत्यर्थः॥ २९ ॥ अनुगन्तुमिति । मूलैः पादस्थानीयस्त्वामनुगन्तुमशक्ताः । उद्धतवेगिनः प्रतिहतवेगिनः। वायुवेगेन उन्नताः ऊर्ध्वबाइव इव स्थिता इति भावः। पादपाः विक्रोशन्तीव, क्रन्दन्तीव वायुवेगोत्थशब्देरितिभावः । उद्धतवेगिभिरित्यपि पाठः ॥३०॥ निश्चेष्टेति । चेष्टा चलनादिकम् आहारः सञ्चाराश्च येभ्यो निर्गतास्ते तथोक्ताः । प्रयाचन्ते प्रार्थयन्ते, निवृत्तिमितिशेषः। एवं तिर्यक्स्थावराणामपि खेदो रामस्य सर्वशरी रित्वात् शरीरिणो वैपरीत्ये हि शरीरव्यथा दृष्टा ॥३३॥ एवमिति । निवर्तने विषये । यदा द्विजातीनामिति सम्बन्धसामान्ये षष्ठी। द्विजातिभिः प्रार्थ्य बहनामिति । ये द्विजाः इहागताः, तेषां ये यज्ञाः विस्तृताः, सम्भृतसम्भारा इत्यर्थः । तेषां यज्ञानां समातिः तव निवर्तने आयना त्वनिवर्तनाधीनत्यर्थः । एवं न कृतं चेत् सर्व यज्ञाः त्वयैव विनिताः स्युरिति भावः ॥ २८ ॥ न केवलं वयमेव, तिर्यक्रस्थावराण्यपि वन्निवृत्तमाकान्त इत्याहुः भक्तीत्यादि । भक्तिं स्नेह दर्शय, निवृत्येति शेषः ॥२९॥ अनुगन्तुमिति । मूलतुभिः। उद्धतवेगिनः अत्यन्तहतवेगवन्तः, अत एव वामनुगन्तुमशक्काः वायुवेगेन हेतुना विक्रोशन्तीवेति सम्बन्धः । अयं भावः-पुरवासिनो रामानुधानभाग्यमवलोक्य स्वयमपि तदर्थमुयुक्ताः मूलेहतुभिर्हतगमनवेगाः पुरजनैरिबास्माभिः रामानुयानभाग्य न लब्धमिति वायुवेगेन हेतुना विक्रोशन्तीति ॥ ३०॥ निश्चेष्टाहारसबाराः चेष्टया गात्रसभालनादिना आहारार्थ सबारा: येभ्यो निर्गताः । प्रयाचन्ते प्रार्थयन्ते, वृक्षरूपे एकस्मि नेव स्थाने विष्ठिताः न तु भुवमवरोहन्त्यहारार्थमपीत्यर्थः ॥ ३१ ॥ एवमिनि । रामनिवर्तने द्विजातीनां विक्रोशा सतां राघवं वारयन्ती तमसा दहशे दृष्टेति
For Private And Personal Use Only